This page has been fully proofread once and needs a second look.

८६
 
हर्षचरितसंग्रहे
 
कृत्ये गुणवदायत्तः" इति । अथ तथा तस्मिन्नभिनन्दितप्रणये
श्
प्रीयमाण: पार्थिवः, तत्र तामुषित्वा विभावरीम्, उषसि वस-
नालंकारादिप्रदान परितोषितं विसर्ज्य निर्घातम्, आचार्येण सह
स्वसारमादाय, प्रयाणकैः कतिपयैरेव कटकमनुजाह्नवि निविष्टं
 
प्रत्याजगाम ॥
 

 
तत्र च राज्य श्री प्राप्तिव्यतिकरकथां कथयत एव प्रणयिभ्यो
रविरपि ततार गगनतलम् । बहुलमधुपङ्कपिङ्गलः पङ्कजाकर इव
संचुकोच चक्रवाक- वल्लभो वासरः । अवसिते च संध्यासमये,
समनन्तरमपरिमितयशःपान तृषिताय मुक्ताशैलशिलाचषक इव
निजकुलकीर्त्या, कृतयुगकरणोद्यताय आदिराजराजतशासनमुद्रा-
निवेश इव राज्यश्रिया, सकलद्वीपजिगीषा- चलिताय श्वेतद्वीपदूत
इव चायत्या, श्वेतभानुरुपानीयत निशया नरेन्द्राय ॥
 

 
॥ इति भट्टबाणविरचिते हर्षचरिते अष्टम उच्छवासः ॥

हर्षचरितसंग्रहः समाप्तः ॥
 

 
 
 
 
 
 
मधुपदेन मधुपकवङ्कवच्च पिङ्गलः । चषकः पानपात्रम् । राज्यश्रीः
-
राज्यलक्ष्मीः आयतिः उत्तरः कालः, आगामि शुभदैवमिति यावत् ॥