This page has been fully proofread once and needs a second look.

अष्टमोच्छवासः ।
 
आत्मा
 
मपि मनोरथमतिप्रीतिरभिलषति । अतः किंचिदर्थये भदन्तम्-
इयं नः स्वसा बाला च बहुदुःखखेदिता च सर्वकार्यावधीरणोप-
रोधेनापि यावल्लालनीया नित्यम् । अस्माभिश्च भ्रातृवधापकारि-
रिपुकुलप्रलयकरणोद्यतस्य बाहोर्विधेयैर्भूत्वा सकललोकप्रत्यक्षं
प्रतिज्ञा कृता । पूर्वावमाननाभिभवम- सहमानैरर्पित
आत्मा कोपस्य । अतो नियुङ्क्त्तां कियन्तमपि काल- मात्मानमार्थोऽपि
कार्ये मदीये । अद्य प्रभृति यावदयं जनो लघयति प्रतिज्ञाभारम्,
आश्वासयति च तातविनाशदुःखविक्कुबा: प्रजाः, तावदिमा-

मत्रभवतः कथाभिश्च धर्म्याभिः कुशलप्रतिबोधविधायिभि-
रुपदेशैश्च अस्मत्पार्श्वोपयायिनीमेव प्रतिबोध्यमानामिच्छामि ।
 
इयं तु ग्रहीष्यति मयैव समं समाप्तकृत्येन काषायाणि । अर्थिजने च किमिव नातिसृजन्ति
महान्तः । सुरनाथमात्मा स्थिभिरपि यावत्कृतार्थमकरोद्धैर्योदधिर्दधीचः ।
मुनिनाथोऽपि
 
इयं तु ग्रहीष्यति मयैव समं समाप्तकृत्येन काषायाणि ।
अर्थिजने च किमिव नातिसृजन्ति महान्तः । सुरनाथमात्मा.
स्थिभिरपि यावत्कृतार्थमकरोद्धैर्योदधिधीचः ।
अनपेक्षितात्मस्थितिः, अनुकम्पेति कृत्वा कृपावानात्मानं वठर-
सत्त्वेभ्यः कतिकृत्वो न दत्तवान् । अतः परं भवन्त एव बहुत रं

जानन्ति " इत्युक्त्वा तूष्णीं बभूव भूपतिः ॥
 

 
भूयस्तु बभाषे भदन्तः - भव्या न द्विरुच्चारयन्ति
वाचम् । चेतसा प्रथममेव प्रतिग्राहिता गुणास्तावका: कायबलि-
मुना जनेन । उपयोगस्तु निरुप- योगस्यास्य लघुनि गुरुणि वा
 

 
 
 
 
 
यावत् कात्स्यैर्त्स्न्येन । यावच्छक्यमिति केचित् । लघयति लघूकरोति ।

वर्मात् अनपेताः धर्म्याः । वठरसत्वानि दुष्टप्राणिनः । भव्याः श्रेष्ठाः 1

"भव्यगेय – " इति निपातितोऽयम् ॥
 
-