This page has not been fully proofread.

अष्टमोच्छवासः ।
 
आत्मा
 
मपि मनोरथमतिप्रीतिरभिलषति । अतः किंचिदर्थये भदन्तम्-
इयं नः स्वसा बाला च बहुदुःखखेदिता च सर्वकार्यावधीरणोप-
रोधेनापि यावल्लालनीया नित्यम् । अस्माभिश्च भ्रातृवधापकारि-
रिपुकुलप्रलयकरणोद्यतस्य बाहोर्विधेयभूत्वा सकललोकप्रत्यक्षं
प्रतिज्ञा कृता । पूर्वावमाननाभिभवम सहमानैरर्पित
कोपस्य । अतो नियुतां कियन्तमपि कालमात्मानमार्थोऽपि
कार्ये मदीये । अद्य प्रभृति यावदयं जनो लघयति प्रतिज्ञाभारम्,
आश्वासयति च तातविनाशदुःखविक्कुबा: प्रजाः, तावदिमा-
मत्रभवतः कथाभिश्च धर्म्याभिः कुशलप्रतिबोधविधायिभि-
रुपदेशैश्च अस्मत्पार्श्वोपयायिनीमेव प्रतिबोध्यमानामिच्छामि ।
 
मुनिनाथोऽपि
 
इयं तु ग्रहीष्यति मयैव समं समाप्तकृत्येन काषायाणि ।
अर्थिजने च किमिव नातिसृजन्ति महान्तः । सुरनाथमात्मा.
स्थिभिरपि यावत्कृतार्थमकरोद्धैर्योदधिधीचः ।
अनपेक्षितात्मस्थितिः, अनुकम्पेति कृत्वा कृपावानात्मानं वठर-
सत्त्वेभ्यः कतिकृत्वो न दत्तवान् । अतः परं भवन्त एव बहुत रं
जानन्ति " इत्युक्त्वा तूष्णीं बभूव भूपतिः ॥
 
भूयस्तु बभाषे भदन्तः भव्या न द्विरुच्चारयन्ति
वाचम् । चेतसा प्रथममेव प्रतिग्राहिता गुणास्तावका: कायबलि-
समुना जनेन । उपयोगस्तु निरुपयोगस्यास्य लघुनि गुरुणि वा
 
यावत् कात्स्यैन । यावच्छक्यमिति केचित् । लघयति लघूकरोति ।
वर्मात् अनपेताः धर्म्याः । वठरसवानि दुष्टप्राणिनः । भव्याः श्रेष्ठाः 1
"भव्यगेय – " इति निपातितोऽयम् ॥
 
-