This page has been fully proofread once and needs a second look.

सत्यव्रते, वद किमत्र क्रियते । कतम उपालभ्यते । कस्य पुर उच्चैराक्रन्द्यते, हृदयदाहि दुःखं वा ख्याप्यते । सर्वमक्षिणी निमील्य सोढव्यममूढेन मर्त्यधर्मणा । पुण्यवति, पुरातन्यः स्थितयः एताः केन शक्यन्तेऽन्यथाकर्तुम् । तृप्तिमशिक्षिता च भगवतः सर्वभूतभुजो बुभुक्षा मृत्योः । अतिद्रुतवाहिनी चानित्यतानदी । सर्वमात्मनोऽनीश्वरं विश्वं नश्वरम्। एवमवधृत्य नात्यर्थमेवार्हसि मेधाविनि, मृदुनि मनसि तमसः प्रसरं दातुम्।
एको हि प्रतिसंख्यानक्षण आधारीभवति धृतेः । अपि च दूरगतेऽपि हि शोके नन्विदानीमपेक्षणीय एवायं ज्येष्ठः पितृकल्पो भ्राता भवत्या गुरुः । इतरथा को न बहुमन्येत कल्याणरूपमीदृशं संकल्पमत्रभवत्याः काषाय- ग्रहणकृतम् । अखिलमनोज्वरप्रशमनकारणं हि भगवती प्रव्रज्या । ज्यायः खल्विदं पदमात्मवताम् । महाभागस्तु भिनत्ति मनोरथमधुना । यद्यमा- दिशति, तदेवानुष्ठेयम् । यदि भ्रातेति, यदि ज्येष्ठ इति, यदि वत्सल इति, यदि गुणवानिति, यदि राजेति, सर्वथा स्थातव्यमस्य नियोगे" इत्युक्त्वा व्यरंसीत् ॥
 
उपरतवचसि च तस्मिन्निजगाद नरपतिः – "आर्यमपहाय कोऽन्य एवम- भिद्ध्यात् ? अनभ्यर्थितदैवनिर्मिता हि विषमविपदवलम्बनस्तम्भा भवन्तो लोकस्य । स्नेहार्द्रमूर्तयो मोहान्धकारध्वंसिनश्च धर्मप्रदीपा: । किंतु प्रणयप्रदानदुर्ललिता दुर्लभ-
 
 
 

 
मर्त्यस्य धर्मो यस्य सः मर्त्यधर्मा । "धर्मादनिच् केवलात्" । मेधाः अस्या अस्तीति मेधाविनी । प्रतिसंख्यानं विवेकः । दुर्ललिता उच्छृङ्खला ॥