This page has been fully proofread once and needs a second look.

हर्षचरितसंग्रहे
 
सत्यव्रते, वद किमत्र क्रियते । कतम उपालभ्यते । कस्य पुर
च्चैराक्रन्द्यते, हृदयदाहि दुःखं वा ख्याध्प्यते । सर्वमक्षिणी
निमील्य सोढव्यममूढेन मर्त्यधर्मणा । पुण्यवति, पुरातन्यः
स्थितयः एताः केन शक्यन्तेऽन्यथाकर्तुम् । तृप्तिमशिक्षिता च
भगवतः सर्वभूतभुजो बुभुक्षा मृत्योः । अतिद्रुतवाहिनी
चानित्यतानदी । सर्वमात्मनोऽनीश्वरं विश्वं नश्वरम् । एवमववृत्य
धृत्य नात्यर्थमेवार्हसि मेधाविनि, मृदुनि मनसि तमसः प्रसरं दातुम्

एको हि प्रतिसंख्यानक्षण आधारीभवति घृधृतेः । अपि च दूर-
गतेऽपि हि शोके नन्विदानीमपेक्षणीय एवायं ज्येष्ठः पितृकल्पो
भ्राता भवत्या गुरुः । इतरथा को न बहुमन्येत कल्याणरूपमीदृशं
संकल्पमत्रभवत्याः काषाय ग्रहणकृतम् । अखिलमनोज्वरप्रशमन-
कारणं हि भगवती प्रव्रज्या । ज्यायः खल्विदं पदमात्मवताम् ।
महाभागस्तु भिनत्ति मनोरथमधुना । यद्यमा- दिशति, तदेवानुष्ठे-
यम् । यदि भ्रातेति, यदि ज्येष्ठ इति, यदि वत्सल इति, यदि
गुणवानिति, यदि राजेति, सर्वथा स्थातव्यमस्य नियोगे""
इत्युक्त्वा व्यरंसीत् ॥
 
८४
 

 
उपरतवचसि च तस्मिन्निजगाद नरपतिः – "आर्य-
मपहाय कोऽन्य एवम- भिद्ध्यात् १ अनभ्यर्थित दैवनिर्मिता हि
विषमविपदवलम्बनस्तम्भा भवन्तो लोकस्य । स्नेहार्द्रमूर्तयो मोहा-
न्धकारध्वंसिनश्च धर्मप्रदीपा: । किंतु प्रणयप्रदानदुर्ललिता दुर्लभ-

 
 
 
 
 
मर्त्यस्य धर्मो यस्य सः मर्त्यधर्मा । "धर्मादनिचूच् केवलात्" । मेधा
धाः अस्या अस्तीति मेधाविनी । प्रतिसंख्यानं विवेकः । दुर्ललिता उच्छृङ्खला ॥