This page has been fully proofread once and needs a second look.

राजा तु तच्छ्रुत्वा सादरम् "क्वासौ? आनयात्रैव।
प्रवेशयैनम्" इत्यब्रवीत्। तथा चाकरोत्प्रतीहारी ॥
 
न चिराच्च प्रविशन्तं प्रांशुम् आजानुभुजं भैक्षक्षामं पृथूत्त-
माङ्गम्, ईषदावक्रघोणम्, अंसावलम्बिना योगपट्टकेन विरचित-
वैकक्षकम्, धातुरसारुणेन कर्पेटेन कृतोत्तरासङ्गं मस्करिणम्
अद्राक्षीत्॥
 
क्षितिपतिरप्युपगतमुचितेन चैनमादेरणाग्रहीत्। आसीनं
च पप्रच्छ--"क्व भैरवार्चायः" इति। सादरेण नरपतिवचनेन
मुदितमनास्तु परिव्राट्, तम् उपनगरं सरस्वती तटवनावलम्बिनि
शून्यायतने स्थितमाचचक्षे। भूयश्चाबभाषे--"अर्चयति महा-
भागं भगवानाशीर्वचसा" इत्युक्त्वा च उपनिन्ये भैरवाचार्यप्रहि-
तानि रत्नवन्ति पञ्च राजतानि पुण्डरीकाणि॥
 
नरपतिस्तु प्रियजनप्रणयभङ्गकातरो दाक्षिण्यमनुरुध्यमानः,
ग्रहणलाघवं च लङ्घयितुमसमर्थः, दोलायमानेन मनसा स्थित्वा
कथं कथमपि तानि जग्राह। जगाद च--"सर्व फलप्रसवहेतुः
------------------------------------------------------------------------------------------------------------
प्रांशुः उन्नतः। भिक्षाणां समूहः भैक्षम्। योगपट्टकः योगसाधनं
दृढस्थूलस्वल्पदीर्घवस्त्रखण्डः। "पृष्ठजान्वोः समायोगे वस्त्रं वलयवद्दृढम्।
परिवेष्ट्य यदूर्ध्वज्ञुस्तिष्ठेत्तद्योगपट्टकम्।॥ "वैकक्षकम् उपवीतवत् वक्षसि तिर्यक्
क्षिप्तं माल्यम्। कर्पटः वस्त्रम्। मलिनत्वादिदुष्टजीर्णवस्त्रखण्ड इति केचित् ।
प्रस्वेदादिमार्जनार्थहस्तस्थवस्त्रखण्ड इत्यन्ये। उत्तरे ऊर्ध्वभागे आसज्यते
इति उत्तरासङ्गः उत्तरीयम्। मस्करः वेणुः (दण्डः) अस्यास्तीति मस्करी
संन्यासी। "मस्करमस्करिणौ वेणुपरिव्राजकयोः।" राजतानि रूप्यमयानि
दोलेव आचरत् दोलायमानम्, चञ्चलम्॥