This page has not been fully proofread.

तृतीयोराजा तु तच्छ्वासः ।
 
राजा तु तच्छु
रुत्वा सादरम् "काक्वासौ ? आनयात्रैव

प्रवेशयैनम्" इत्यब्रवीत् । तथा चाकरोत्प्रतीहारी ॥
 

 

 
न चिराच्च प्रविशन्तं प्रांशुम् आजानुभुजं मैभैक्षक्षामं पृथूत-
त्त-
माङ्गम्, ईषदावक्रघोणम्, अंसावलम्बिना योगपट्टकेन विरचित-

वैकक्षकम्, धातुरसारुणेन कर्पेटेन कृतोत्तरासङ्गं मस्करिणम्

अद्राक्षीत्
 

 
क्षितिपतिरप्युपगतमुचितेन चैनमादेरणाग्रहीत् । आसीनं

च पप्रच्छ – "क्क--"क्व भैरवार्चायः" इति । सादरेण नरपतिवचनेन

मुदितमनास्तु परित्व्राट्, तम् उपनगरं सरस्वती तटवनावलम्बिनि

शून्यायतने स्थितमाचचक्षे । भूयश्चाबभाषे--"अर्चयति महा-

भागं भगवानाशीर्वचसा " इत्युक्त्वा च उपनिन्ये भैरवाचार्यप्रहि-

तानि रत्नवन्ति पञ्च राजतानि पुण्डरीकाणि
 

 
नरपतिस्तु प्रियजनप्रणय भङ्गकातरो दाक्षिण्यमनुरुध्यमानः,

ग्र
हणलाघवं च लङ्घयितुमसमर्थः, दोलायमानेन मनसा स्थित्वा

कथं कथमपि तानि जग्राह । जगाद च--"सर्व फलप्रसवहेतु:
 
तुः
------------------------------------------------------------------------------------------------------------
प्रांशुः उन्नतः । भिक्षाणाणां समूहः भैक्षम् । योगपट्टकः योगसाधनं

दृढस्थूलस्वल्पदीर्घवस्त्रखण्ड: डः। "पृष्ठजान्वोः समायोगे वस्त्रं वलयवद्दृढम्

परिवेष्ट्य यदूर्ध्वजुज्ञुस्तिष्ठेत्तद्योगपट्टकम्" "वैकक्षकम् उपवीतवत् वक्षसि तिर्थक्
यक्
क्षिप्तं माल्यम् । कर्पटः वस्त्रम् । मलिनत्वादिदुष्टजीर्णवस्त्रखण्ड इति केचित् ।

प्रस्वेदादिमार्जनार्थह स्तम्स्तस्थवस्त्रखण्ड इत्यन्ये । उत्तरे ऊर्ध्वभागे आसज्यते

इति उत्तरासङ्गः उत्तरीयम् । मस्करः वेणुः (दण्ड :डः) अस्यास्तीति मस्करी

संन्यासी । "मस्करमस्करिणौ वेणुपरिव्राजकयोः ।" राजतानि रूप्यमयानि

दोलेत्र आचरत् दोलायमानम्, चञ्चलम्