This page has not been fully proofread.

तृतीयोच्छ्वासः ।
 
राजा तु तच्छुत्वा सादरम् "कासौ ? आनयात्रैव
प्रवेशयैनम्" इत्यब्रवीत् । तथा चाकरोत्प्रतीहारी ॥
 

 
न चिराच प्रविशन्तं प्रांशुम् आजानुभुजं मैक्षक्षामं पृथूत-
माङ्गम्, ईषदावक्रघोणम्, अंसावलम्बिना योगपट्टकेन विरचित-
वैकक्षकम् धातुरसारुणेन कर्पेटेन कृतोत्तरासङ्गं मस्करिणम्
अद्राक्षीत् ॥
 
क्षितिपतिरप्युपगतमुचितेन चैनमादेरणाग्रहीत् । आसीनं
च पप्रच्छ – "क्क भैरवार्चायः" इति । सादरेण नरपतिवचनेन
मुदितमनास्तु परित्राट्, तम् उपनगरं सरस्वती तटवनावलम्बिनि
शून्यायतने स्थितमाचचक्षे । भूयश्चाबभाषे– "अर्चयति महा-
भागं भगवानाशीर्वचसा " इत्युक्त्वा च उपनिन्ये भैरवाचार्यप्रहि-
• तानि रत्नवन्ति पञ्च राजतानि पुण्डरीकाणि ॥
 
नरपतिस्तु प्रियजनप्रणय भङ्गकातरो दाक्षिण्यमनुरुध्यमान,
महणलाघवं च लवयितुमसमर्थः, दोलायमानेन मनसा स्थित्वा
कथं कथमपि तानि जग्राह । जगाद च – "सर्व फलप्रसवहेतु:
 
प्रांशुः उन्नतः । भिक्षाणा समूहः भैक्षम् । योगपट्टकः योगसाधनं
दृढस्थूलस्वल्पदीर्घवस्त्रखण्ड: । "पृष्ठजान्वोः समायोगे वस्त्रं वलयवदृढम्
परिवेष्ट्य यदूर्ध्वजुस्तिष्ठेत्तद्योगपट्टकम् । ॥" वैकक्षकम् उपवीतवत् वक्षसि तिर्थक्
क्षिप्तं माल्यम् । कर्पटः वस्त्रम् । मलिनत्वादिदुष्टजीर्णवस्त्रखण्ड इति केचित् ।
प्रस्वेदादिमार्जनार्थह स्तम्थवस्त्रखण्ड इत्यन्ये । उत्तरे ऊर्ध्वभागे आसज्यते
इति उत्तरासङ्गः उत्तरीयम् । मस्करः वेणुः (दण्ड :) अस्यास्तीति मस्करी
संन्यासी । "मस्करमस्करिणौ वेणुपरिव्राजकयोः ।" राजतानि रूप्यमयानि
दोलेत्र आचरत् दोलायमानम्, चञ्चलम् ॥