This page has been fully proofread once and needs a second look.

अष्टमोच्छ्वासः ।
 
८३
 
अव्
प्रत्याख्यानस्य वा । दर्शनात्प्रभृति प्रभूतगुरुगुणगणहृतेन हृदयेन
'

परवन्तो वयम् । संकल्पितमिदम् आ मरणादार्योपयोगाय शरी-
·
रम् । अत्र कामचारो वः कर्तव्यानाम् " इति ॥
 

 
समतिकाक्रान्ते च कियत्यपि काले, लब्धविस्रम्भा राज्यश्री-
-
स्ताम्बूलवाहिनीं पत्रलतामाहूयोपांशु किमपि कर्णमूले शनैरादि-
देश । दर्शितविनया च पत्रलता पार्थिवं व्यज्ञापयत् – "देव,
देवी विज्ञापयति — न स्मराम्यार्यस्य पुरतः कदाचिदुबैच्चैर्वचन-
पि, कुतो विज्ञापनम् । इयं हि शुचामसह्यता व्यापारयन्ती
इतदैवदत्तादेशा शिथिलयति विनयम् । अबलानां हि पतिरपत्यं
वावलम्बनम् । उभयविकलानां तु दुःखानलेन्धनायमानं प्राणि-

तम् अशालीनत्वमेव केवलम् । आर्यागमनेन च कृतोऽपि प्रति-
तो मरणप्रयत्नः । अतः काषायग्रहणाभ्यनुज्ञयानुगृह्यतामयम-
पुण्यभाजनं जनः" इति । जनाधिपस्तु तदाकर्ण्य तूष्णीमेवावा-
तिष्ठत ॥
 

 
अथाचार्य: सुधीरमभ्यधात् – "आयुष्मति, शोको हि
नाम पर्याय: पिशाचस्य । तारुण्यं तमसः । अयमप्रतिबोधो
निद्राप्रकार: । अयमबुध सेवितो ग्रहवर्गः । तदस्य अजस्रस्राविणो
हृदयमहाव्रणस्य जीवितापहारदक्षस्य अनभ्रवज्र-
पातस्य स्फुरदन-
द्यविद्याविद्युदुद्द्योत मानानि भूरिकाव्यकथाकठोराणि विदुषा-
मपि हृदयानि नालं सोढुमापातम्, किमुत नवनवमालिकाकुसुम-
सुम
कोमलानां सरसबिसतन्तुदुर्बलमबलानां हृदयम् । एवं सति

 
 
 
 
 
 
अशालीनत्वं धार्म्ष्ट्यम् । बुध पण्डितः, चन्द्रपुत्रश्च ॥