This page has been fully proofread once and needs a second look.

हर्षचरितसंग्रहे
 
कुरु वचनमग्रजस्य गुरोः" इत्याचार्येण याच्यमानापि, "स्वामिनि
भ्रातरम- वेक्षस्व" इति परिजनेन विज्ञाप्यमानापि, प्रभूतमन्यु -
भारभरितान्तःकरणा, करुणकालेन स्वरेण अकलितकालमति-
चिरं रुरोद । बिविगते च मन्युवेगे वह्नेः समीपादाक्षिप्य भ्रात्रा
नीता निकटवर्तिनि तरुतले लिपसाद ॥
 

 

 
शनैराचार्यस्तु तदा हर्प इति विज्ञाय विवर्धितादरः सुतराम्,
मुहूर्मिवानिवास तिवाह्य निभृतसंज्ञाज्ञापितेन शिष्येणोपनीतं नलिनी:
दलैः स्वयमादाय नोनम्रो मुखप्रक्षालनायोदकमुपनिन्थेये । नरेन्द्रोऽपि सादरं
गृहीत्या प्रथमम् अनवरत रोदनातानंम्रं स्वसुश्चक्षुरक्षालयत्, पश्चा--
दात्मनः । प्रक्षालितमुखशशिनि च महीपाले सर्वतो निःशब्द:
संबभूव सकलो लिखित इव लोकः । ततो नरेन्द्रो मन्दमन्दम-
ब्रवीत्स्वमासारम् – "वत्से, न्दस्वात्रभवन्तं भदन्तम् । एप
एप
ते

भर्तुद्वितीयं हृदयम् , अस्माकं च गुरुः" इति । राजवचनात्तु
राजदुहितरि पतिपरिचयश्रवणोद्धातेन पुनरानीतनेत्राम्भसि नम--
न्त्याम्, आचार्य: किंचित्परावृत्तनयनो दीर्घ शिनिशश्वास । स्थित्वा
च क्षणमेकं प्रदर्शितप्रश्रयो मृदुवादी मधुरया वाचा व्याजहार
"कल्याणराशे, अलं रुदित्वातिचिरम् । राजलोको नाद्यापि
रोदनान्निवर्तते । क्रियतामवश्यकरणीयः स्नानविधिः । स्नात्वा च
गम्यतां तामेव भूयो भुवम्" इति ॥
 
,
 

 
अथ भूपतिरनुवर्तमानो लौकिकमाचारम् आचार्यवचनं
च, उत्थाय स्नात्वा गिरिसरिति, सह स्वस्रा तामेव भूमिमया-

 
 
 
 
 
काहल: महान् । उद्धात: आरम्भः, अभिघात इत्यन्ये ॥