This page has not been fully proofread.

हर्षचरितसंग्रहे
 
कुरु वचनमग्रजस्य गुरोः" इत्याचार्येण याच्यमानापि, "स्वामिनि
भ्रातरमवेक्षस्व" इति परिजनेन विज्ञाप्यमानापि, प्रभूतमन्यु -
भारभरितान्तःकरणा, करुणकाइलेन स्वरेण अकलितकालमति-
चिरं रुरोद । बिगते च मन्युवेगे वह्नेः समीपादाक्षिप्य भ्रात्रा
नीता निकटवर्तिनि तरुतले लिपसाद ॥
 

 
शनैराचार्यस्तु तदा हर्प इति विज्ञाय विवर्धितादरः सुतराम्,
मुहूर्नमिवानिवास निभृतसंज्ञाज्ञापितेन शिष्येणोपनीतं नलिनी:
स्वयमादाय नो मुखप्रक्षालनायोदकमुपनिन्थे । नरेन्द्रोऽपि सादरं
गृहीत्या प्रथमम् अनवरतरोदनातानं स्वसुश्चक्षुरक्षालयन पश्चा--
दात्मनः । प्रक्षालितमुखशशिनि च महीपाले सर्वतो निःशब्द:
संबभूव सकलो लिखित इव लोकः । ततो नरेन्द्रो मन्दमन्दम-
ब्रवीत्स्वमारम् – "वत्से, बन्दस्वात्रभवन्तं भदन्तम् । एप
एप ते
भर्तुद्वितीय हृदयम् अस्माकं च गुरुः" इति । राजवचनात्तु
राजदुहितरि पतिपरिचयश्रवणोद्धातेन पुनरानीतनेत्राम्भसि नम--
न्त्याम्, आचार्य: किंचित्परावृत्तनयनो दीर्घ शिश्वास । स्थित्वा
च क्षणमेकं प्रदर्शितप्रश्रयो मृदुवादी मधुरया वाचा व्याजहार
"कल्याणराशे, अलं रुदित्वातिचिरम् । राजलोको नाद्यापि
रोदनान्निवर्तते । क्रियतामवश्यकरणीयः स्नानविधिः । स्नात्वा च
गम्यतां तामेव भूयो भुवम्" इति ॥
 
,
 
अथ भूपतिरनुवर्तमानो लौकिकमाचारम् आचार्यवचनं
च, उत्थाय स्नात्वा गिरिसरिति, सह स्वस्रा तामेव भूमिमया-
काहल: महान् । उद्धात: आरम्भः, अभिघात इत्यन्ये ॥