This page has not been fully proofread.

अष्टमोच्छ्वासः ।
 
प्रयत्नरक्षित कृतघ्न चारित्रचाण्डाल, न रक्षसि राजपुत्रीम् ।
व्यपेहि पाप पावक स्त्रीघातनिर्घृण ज्वलन्न लज्जसे । भ्रातर्वात,
दासी तवास्मि । संवादय द्रुतं देवीदाहं देवाय दुःखितजनार्ति-
हराय हर्षाय । विजने वने कमाक्रन्दामि, कस्मै कथयामि,
कमुपयामि शरणम्, कां दिशं प्रतिपद्ये ? करोमि किमभागधेया ?
· गान्धार, गृहीतोऽयं लतापाशः । सुतनु, तनूनपाति पतिष्यसि
त्वमपि । विजये, वीजय कृशानुम् । सुभद्रे, भद्रमस्तु ते परलोक-
-गमनम् । कलिङ्ग सेने, अयं पश्चिमः परिष्वङ्गः । वामनिके,
वामेन मे स्फुरितमक्ष्णा । हरिणि, हेषितमिव यानामुत्तरतः ।
कस्येदमातपत्रमुश्चमत्र पादपान्तरेण प्रभावति, विभाव्यते
कुरङ्गिके, केन सुगृहीतनाम्नो नाम गृहीतममृतमयमार्यस्य । देवि,
दिष्ट्या वर्धसे देवस्य हर्षस्यागमनमहोत्सवेन" इत्येतश्च श्रुत्वा
सत्वरमुपससर्प । ददर्श च मुह्यन्ती मनिप्रवेशायोद्यतां राजा राज्य-
श्रियम् । आललम्बे च मूर्च्छामीलितलोचनाया ललाटं हस्तेन
तस्याः ससंभ्रमम् ॥
 
1
 
७९
 
अथ तेन भ्रातुः प्रेयसः प्रत्यानयतेव कुतोऽपि जीवित-
माह्लादकेन हस्तस्पर्शेन सहसैव समुन्मिमील राज्यश्रीः । तथा
चासंभावितागमनस्य अचिन्तितदर्शनस्य सहसा प्राप्तस्य भ्रातुः
कण्ठे समाश्लिष्य, तत्कालाविर्भावनिर्भरेण दुःखसंभारेण स्थूल-
प्रवाहमुत्सृजन्ती बाष्पवारि लोचनाभ्याम्, "हा तात, हा अम्ब,
हा सख्यः" इति व्याहरन्ती, "वत्से, स्थिरा भव त्वम्"
इति भ्रात्रा करस्थगितमुखी समाश्वास्यमानापि, "कल्याणिनि,