This page has not been fully proofread.

हर्षचरितसंग्रहे
 
पदवीमारोपयिष्यति'
 
इति । तच्च श्रुत्वा 'त्वरतामार्य :' इत्यभि-
दधाना सा पुनरपि पादयोः पतितवती । सोऽहमुपगत्य त्वरमाणो
व्यतिकरमिममतिकरुणमन्त्रभवते गुरवे निवेदितवान् " इति ॥
 
७८
 
अथ भूभृत्समवधार्य तद्भाषितम् अश्रुतेऽपि स्वसुर्नाम्नि
निम्नीकृतमना मन्युना, सर्वाकारसंवादिन्या दशयैव दूरीकृत-
संदेहः, श्रमणाचार्यमुवाच – "आर्य, नियतं सैवेयमनार्यस्यास्य
जनस्यातिकठिनहृदयस्य मन्दभाग्यस्य भगिनी । विदीर्यमाणं मे
हृदयमेवं निवेदयति" इत्युक्त्वा तमपि श्रमणमभ्यधात्
 
आर्य, उत्तिष्ठ । दर्शय । क्वासौ । सुप्रभूतप्राणपरित्राण पुण्यो-
पार्जनाय यामः । यदि कथंचिजीवन्तीं संभावयामः ' इति
भाषमाण एवोत्तस्थौ ।
 
अथ समग्रशिष्यवर्गानुगतेन आचार्येण समस्तेन सामन्त-
लोकेन च पश्चादनुगम्यमानः पुरस्ताच्च तेन शाक्यपुत्रीयेण
प्रदर्श्यमानवम पद्भ्यामेव तं प्रदेशमविरलैः पदैः पिबन्निव
प्रवर्तत । क्रमेण च समुपगतः शुश्राव लतावनान्तरितस्य
मुमूर्षोभेहतः स्त्रैणस्य तत्कालोचिताननेकप्रकारानालापान्– "भग-
वन् धर्म, धाव शीघ्रम् । क्कासि कुलदेवते । क्कनु खलु प्रोषिता
पुष्पभूतिकुटुम्बिनी लक्ष्मीः । भगवन्, भक्तजने संज्वििण
सुगत, सुप्तोऽसि । पतङ्ग, प्रसीद, पाहि पतिव्रतामशरणाम् ।
 
व्यतिकरः विषयः । निम्नीकृतं भग्नम् । मन्युः दुःखम् । शाक्यपुत्रस्य
वुद्धस्य अयं शाक्य पुत्रीयः । सुमूर्षुः मरणाशङ्काविषयः । आशङ्कायां सन् ।
पतङ्गः सूर्यः ॥