This page has been fully proofread once and needs a second look.

मयि, तस्मात्स्त्रैणादुत्थायान्यतरा योषित् शोकविक्क्लुबा समुपसृत्य,
कतिपयपलितशारं शिरो नीत्वा महीतलम्, अश्रुबिन्दुभिश्चरणयुगलं दहन्ती मम, अभिहितवती – 'भगवन्, सर्वसत्त्वानुकम्पिनी प्रायः प्रव्रज्या । करुणा कुलगृहं च भगवतः शाक्यमुनेः शासनम् । परलोकसाधनं च धर्मो मुनीनाम् । प्राणरक्षणाच्च न परं पुण्यजातं जगति गीयते जनेन । अनुकम्पाभूमयः प्रकृत्यैव युवतयः, किंपुनर्विपदभिभूताः । साधुजन्य सिद्धिक्षेत्रमार्तवचसाम्। इयं नः स्वामिनी मरणेन पितुः, अभावेन भर्तुः, प्रवासेन च भ्रातुः, भ्रंशेन च शेषम्य बान्धववर्गस्य, अतिमृदुहृदयतया अनपत्यतया च निरवलम्बना, परिभवेन च नीचारातिकृतेन अमुना च महाटवीपर्यटनक्लेशेन कदर्थित- सौकुमार्या, दग्धदैवदत्तैरेवंविधैर्बहुभिरुपर्युपरि व्यसनैर्विक्लवीकृतहृदया, दारुणं दुःखमपारयन्ती सोढुम्, अग्नि प्रविशति । परित्रायताम् । आर्योऽपि
तावदसह्यशोकापनयनोपायोपदेशनिपुणां व्यापारयतु वाणीमस्याम्' इति चातिकृपणं व्याहरन्तीमहमुत्थाप्योद्विग्नतरः शनैरभिहितवान् - 'आर्ये, यथा कथयसि तथा । अस्मद्भिरामगोचरोऽयमस्याः शोकः । शक्यते चेन्मुहूर्त- मात्रमपि त्रातुम् उपरिष्टान्न व्यर्थेयमभ्यर्थना भविष्यति । मम हि गुरुरपर इव भगवान्सुगतः समीपगत एव । कथिते मयास्मिन्नुदन्ते, नियतमा- गमिष्यति परमदयालुः । दुःखान्धकारपटलभिदुरैश्च सौगतैः सुभाषितैः स्वकैश्च दर्शितनिदर्शनैर्नानागमगुरुभिर्गिरां कौशलैः कुशलशीलामेनां प्रबोध-
 
 
 
 
 
 
निदर्शनं दृष्टान्तः ॥