This page has not been fully proofread.

हर्षचरितसंग्रहे
 
विकलेनावलानां चक्रवालेन परिवृताम्, आपत्कालेऽप्यमुच्यमानां
लावण्येन, मृन्मयीमिव निश्चेतनतया, सलिलमयीमिव अस्रपत्र-
वणेन, पावकमयीमित्र संतापसंतानेन, मरुन्मयीमिव निःश्वास-
संपदा, वियन्मयीमिव निरबलम्बनतया, दग्धदशाविसंवादितां
प्रत्यूषप्रदीपशिखामिव क्षामक्षामां पाण्डुबपुषम् स्थितां तरुतले
मरणे च, पतितां धात्र्युत्सङ्गे महानर्थे च, आकुछ केशकलापेन
मरणोपायेन च, धृतमुखीं पाणिना मौनेन च, अलसामुन्मेषे,
दक्षामनुमोक्षे, कृशां काये, पूरितां दुःखेन, रिक्तां सत्त्वेन, शून्यां
हृदयेन. वसतिं व्यसनानाम् आस्पदमापदाम्, कारणं करुणाया
योपितम् । चिन्तितवानस्मि च – "चित्रमीदृशीमप्याकृतिमुपतापा:
स्पृशन्ति" इति ॥
 
&
 
-
 
सा तु समीपगते मयि तदवस्थापि सबहुमानमानतमौलिः
प्रणतवती । अहं तु प्रबलकरुणाप्रेर्यमाणस्तामालपितुकामः पुनः
कृतवान्मनसि — "कथमिव महानुभावामेनामामन्त्रये ? वत्से
इति अतिप्रणयः । मातः इति चाटु । भगिनि इति आत्मसंभा-
वना । देवि इति परिजनालाप: । आयुष्मति इति अवस्थायाम-
प्रियम् । कल्याणिनि इति दशायां विरुद्धम् । बाले इति अगौर-
चोपेतम् । अपि च, कासि इति अनभिजातम् । किमर्थं रोदिषि
इति दुःखकारणस्मरणकारि । मा रोदीः इति शोककारणमनपनीय
· न शोभते । समाश्वसिहि इति किमाश्रित्य ? इत्येवं चिन्तयत्येव
 
1
 
-
 
अत्रम् अश्रु । दग्वदशा दुरवस्था, प्लुटा वर्तिका च । विसंवादिता
विशोभीकृता ॥