2023-02-19 13:18:41 by ambuda-bot
This page has not been fully proofread.
अष्टंमोच्छवासः ।
माणदृष्टिः पप्रच्छ –"पाराशरिन्, कियद्दूरे सा योषिदेवंजाती-
या ? जीवेद्वा कालमेतावन्तम् ? पृष्टा वा त्वया — 'कासि,
कस्यासि, कुतोऽसि, किमर्थं वनमिदमभ्युपगतासि, विशसि च
किं निमित्तमनलम्' इति । आदितः प्रभृति कार्येन कथ्यमान-
मिच्छामि श्रोतुम् -- कथमार्यस्य गता गोचरम् ? आकारतो वा
कीदृशी " इति ॥
तथाभिहितस्तु भूभुजा भिक्षुराचचक्षे – "महाभाग, श्रूय-
ताम्
– अहं हि प्रत्युषस्येवाद्य वन्दित्वा भगवन्तमनेनैव नदी -
रोधसा सैकतसुकुमारेण यदृच्छया विहृतवानतिदूरं । एकस्मिञ्च
वनलतागहने गिरिनदीसमीपभाजि भ्रमरीणामिव हिमहतकमला-
करकातराणां रसितम् एकतानं नारीणां रुदितमवृतिकरमतिकरुण-
माकर्णितवानस्मि । समुपजातकृपश्च गतोऽस्मि तं प्रदेशम् ।
दृष्टवानस्मि च दृषत्खण्डखण्डिताङ्गुलिगलल्लोहितेन च पाणिप्रविष्ट
शरशला काशल्यशूलसंकोचितचक्षुषा च अध्वनीनश्रमश्वय थुनिश्चल -
चरणेन च स्थाणवत्रणव्यथितगुल्फवद्धभूर्जत्वचा च विदारीदा-
रिततनुदुकूलपवेन च उत्कटवंशविटपकण्टक कोटिपाटितकञ्चुक-
कपटेन च केनचित्किसलयोपपादितातपत्रकृत्येन केनचित्कदली-
दलव्यजनवाहिना केनचित्पाथेयोकृतमृणालपूलिकेन तत्र शोक-
-
एकतानम् एकरूपम् अनवरतं वेति शंकरपाणिः पादाव:प्रदेशः ।
प्रकृते तु लोचनप्रान्तपर इयन्ये । शलाकाः कृशदीर्घाः काण्डाः । शल्यम्.
अग्रम् । शूलं पीडा । अध्वानम् अलं गच्छति अध्वनीनः अध्वनीनशब्द
प्रकृते अध्वजातपरः । स्थाणवं स्थाणुजनितम् । पूलिका पुञ्जः ॥