This page has been fully proofread once and needs a second look.

७४
 
हर्षचरितसंग्रहे
 
राजा तु सादरतरमब्रवीत्- आर्य, दर्शितसंभ्रमेणानेन
मधुरसविसरं वर्षता वचसैव ते सर्वमनुष्ठितम् । धन्योऽस्मि
यदेवमभ्यर्हितमनुपचरणीयमपि मान्यो मन्यते माम् । अस्य च
महावनभ्रमणपरिक्लेशस्य कारणमवधारयतु मतिमान् – मम हि
विनष्टनिखिलेष्टबन्धोर्जीवितानुबन्धस्य निबन्धनमेकैव यवीयसी
स्वसावशेषा । सापि भर्तुर्वियोगाद्वैरिपरिभवभयाद्भ्रमन्ती
कथमपि विन्ध्यवनमिदमाविशत् । अतस्तामन्चेवेष्टुंटु वयं सततमिमामटवी-

मटामः । न चैनामासादयामः । कथयतु च गुरुरपि, यदि
कदाचित्कुतश्चिद्व- नचरतः श्रुतिपथमुपगता तद्वार्ता ?" इति ॥
 
कथमपि
 
P
 
"
 

 
अथ तच्छ्रुत्वा जातोद्वेग इव भदन्तः पुनरभ्यधात् -
" धीमन्, न खलु कश्चिदेवरूपो वृत्तान्तोऽस्मानभ्युपगतवान् ।
अभाजनं हि वयमीदृशानां प्रियाख्यानोपायनानां भवताम्" इति
भाषमाण एव तस्मिन् अकस्मादागत्य अपर: शमिनि वयसि
वर्तमानः संभ्रान्तरूप इव पुरस्तादुपरचिताञ्जलिर्जात करुणः प्रक्ष-
रितचक्षुर्भिक्षुरभाषत — "भगवन् भदन्त, महत्करुणं वर्तते ।

बालैव बलवद्व्यसनाभिभूता कल्याणरूपा स्त्री वैश्वानरं विशति ।
संभावयतु तामप्रोषितप्राणां भगवान् । अभ्युपपद्यतां समुचितैः
समाश्वासनैः । अनुपरतपूर्वं कृमिकीटमपि दुःखितं दयाराशेरार्यस्य
गोचरगतम्" इति ॥
 

 
राजा तु जातानुजाशङ्को गद्गदिकागृहीतकण्ठो वाबाष्पाय-

 
 
 
 
 
 
 
विसर: समूह: प्रवाह इति यावत् । यवीयसी कनीयसी ॥
 
M