2023-02-19 13:18:40 by ambuda-bot
This page has not been fully proofread.
७४
हर्षचरितसंग्रहे
राजा तु सादरतरमब्रवीत्- आर्य, दर्शितसंभ्रमेणानेन
मधुरसविसरं वर्षता वचसैव ते सर्वमनुष्ठितम् । धन्योऽस्मि
यदेवमभ्यर्हितमनुपचरणीयमपि मान्यो मन्यते माम् । अस्य च
महावनभ्रमणपरिक्लेशस्य कारणमवधारयतु मतिमान् – मम हि
विनष्टनिखिलेष्टबन्धोर्जीवितानुबन्धस्य निबन्धनमेकैव यवीयसी
स्वसावशेषा । सापि भर्तुर्वियोगाद्वैरिपरिभवभयाद्भमन्ती
विन्ध्यवनमिदमाविशत् । अतस्तामन्चेष्टुं वयं सततमिमामटवी-
मटामः । न चैनामासादयामः । कथयतु च गुरुरपि, यदि
कदाचित्कुतश्चिद्वनचरतः श्रुतिपथमुपगता तद्वार्ता ?" इति ॥
कथमपि
P
"
अथ तच्छत्वा जातोद्वेग इव भदन्तः पुनरभ्यधात् -
" धीमन्, न खलु कश्चिदेवरूपो वृत्तान्तोऽस्मानभ्युपगतवान् । ।
अभाजनं हि वयमीदृशानां प्रियाख्यानोपायनानां भवताम्" इति
भाषमाण एव तस्मिन् अकस्मादागत्य अपर: शमिनि वयसि
वर्तमानः संभ्रान्तरूप इव पुरस्तादुपरचिताञ्जलिर्जातकरुणः प्रक्ष-
रितचक्षुर्भिक्षुरभाषत — "भगवन् भदन्त, महत्करुणं वर्तते ।
बालैव बलवद्व्यसनाभिभूता कल्याणरूपा स्त्री वैश्वानरं विशति ।
संभावयतु तामप्रोषितप्राणां भगवान् । अभ्युपपद्यतां समुचितैः
समाश्वासनैः । अनुपरतपूर्वं कृमिकीटमपि दुःखितं दयाराशेरार्यस्य
गोचरगतम्" इति ॥
राजा तु जातानुजाशङ्को गद्गदिकागृहीतकण्ठो वाष्पाय-
विसर: समूह: प्रवाह इति यावत् । यवीयसी कनीयसी ॥
M