This page has been fully proofread once and needs a second look.

तत्र च साक्षात्सहस्राक्ष इव सर्ववर्णधरं धनुर्दधानः,
जलनिधिमय इव मर्यादायाम्, शशिमय इव कलासंग्रहे, गुरुर्व-
चसि, पृथुरुरसि, विशालो मनसि, जनकस्तपसि, बुधः सदसि,
अर्जुनो यशसि, भीष्मो धनुषि, राजा पुष्पभूतिरिति <error>नाम्ना</error><fix>नाम्नो</fix>
बभूव॥
 
तस्य च शैशवादारभ्य अन्यदेवताविमुखी भगवति भक्तिः
सुलभे भवे भूयसो भक्तिरभूत्। अकृतवृषभध्वजपूजाविधिर्न
स्वप्नेऽप्याहारमकरोत्। अजम् अजरम् अमरगुरुम् असुरपुररिपुं
पशुपतिं प्रपन्नः, अन्यदेवताशून्यममन्यत त्रैलोक्यम्॥
 
तथा च परममाहेश्वरः स भूपालः, लोकतः शुश्राव भग-
वन्तं दाक्षिणात्यं भैरवाचार्यनामानं महाशैवम्। आचकाङ्क्ष च
सर्वथाप्यस्य दर्शनम्॥
 
अथ कदाचित्पर्यस्ते वासरे, अन्तःपुरवर्तिनं राजानमुप-
सृत्य प्रतीहारी विज्ञापितवती--"देव, द्वारि परिव्राट् आस्ते
कथयति च--भैरवाचार्यवचनाद्देवमनुप्राप्तोऽस्मि इति" इति॥
 
[commentary]
 
सहस्रम् अक्षीणि यस्य सः सहस्राक्षः। सर्ववर्णधरं सकलब्राह्मणादि-
जातिपालकम्, सकलरक्तपीतादिवर्णधारकं च। मर्यादा आचारः, सीमा च
कला: चतुष्षष्टिः, षोडश च। गुरुः महान् बृहस्पतिश्च। पृथुः विपुलः
तन्नामा राजा च । विशालः विस्तृतः, कश्चन राजा च। जनकः उत्पादक:
विदेहराजश्च। बुधः पण्डितः, चन्द्रपुत्रश्च। अर्जुनः धवलः, मध्यमपाण्डवश्च
भीष्मः भयंकरः, भीष्माचार्यश्च। महेश्वरः भक्तिः भजनीयः यस्य स
माहेश्वरः। शैव इत्यपि एवमेव। दक्षिणा भवः दाक्षिणात्यः। पर्यस्तः
परिणतः, गतो वा। परित्यज्य सर्वं व्रजतीति परिव्राट् संन्यासी॥