2023-02-19 13:18:25 by ambuda-bot
This page has not been fully proofread.
हर्षचरित संग्रहे
तत्र च साक्षात्सहस्राक्ष इव सर्ववर्णधरं धनुर्दधानः,
जलनिधिमय इव मर्यादायाम्, शशिमय इव कलासंग्रहे, गुरुर्व.
श्वसि, पृथुरुरसि, विशालो मनसि, जनकस्तपसि, बुधः सदसि,
अर्जुनो यशसि, भीष्मो धनुषि, राजा पुष्पभूतिरिति नान्न
बभूव ॥
तस्य च शैशवादारभ्य अन्यदेवताविमुखी भगवति भक्ति
सुलभे भवे भूयसो भक्तिरभूत् । अकृतवृषभध्वजपूजाविधिर्न
स्वप्नेऽप्याहारमकरोत् । अजम् अजरम् अमरगुरुम् असुरपुररिपुं
पशुपतिं प्रपन्नः, अन्यदेवताशून्यममन्यत त्रैलोक्यम् ॥
तथा च परममाहेश्वरः स भूपालः, लोकतः शुश्राव भग
चन्तं दाक्षिणात्यं भैरवाचार्यनामानं महाशैवम् । आचकाङ्क्षच
सर्वथाप्यस्य दर्शनम् ॥
अथ कदाचित्पर्यस्ते वासरे, अन्तःपुरवर्तिनं राजानमुप
सृत्य प्रतीहारी विज्ञापितवती- 'देव, द्वारि परित्राट् आस्ते
कथयति च – भैरवाचार्यवचनाद्देवमनुप्राप्तोऽस्मि इति" इति ॥
सहस्रम् अक्षीणि यस्य सः सहस्राक्षः । सर्ववर्णधरं सकलब्राह्मणादि
जातिपालकम् सकलरक्तपीतादिवर्णधारकं च । मर्यादा आचारः, सीमा
कला: चतुष्षष्ठिः, षोडश च । गुरुः महान् बृहस्पतिश्च । पृथु विपुलः
तन्नामा राजा च । विशाल विस्तृतः कश्चन राजा च । जनकः उत्पादक:
विदेहराजश्व । बुधः पण्डितः, चन्द्रपुत्रश्च । अर्जुन धवलः मध्यमपाण्डवश्च
भीष्मः भयंकरः, भीष्माचार्यश्च । महेश्वरः भक्तिः भजनीयः यस्य स
माहेश्वरः । शैव इत्यपि एवमेव । दक्षिणा भवः दाक्षिणात्य । पर्यस्त
परिणतः, गतो वा परित्यज्य सर्व व्रजतीति परिवाट् संन्यासी ॥
,