This page has been fully proofread once and needs a second look.

यस्मिन् जातोऽसि । सा सुजाता जननी, या सकलजीवलोकजीवितजन- कमजनयदायुष्मन्तम् । पुण्यवन्ति पुण्यान्यपि तानि, येषामसि परिणामः । भव्यः स पुरुषभावः, भवत्यवस्थितो यः । यत्सत्यं मुमुक्षोरपि मे पुण्यभाज- मालोक्य पुनः श्रद्धा जाता मनुष्यजन्मनि । नेच्छद्भिरपि अस्माभिर्दृष्टः कुसुमायुधः । कृतार्थमद्य चक्षुर्वनदेवतानाम् । अमृतमयस्य भवतो वचसां माधुर्यं कार्यमेव । अस्य त्वीदृशे शैशवे विनयस्योपाध्यायं ध्यायन्नपि न संभावयामि भुवि । सर्वथा शून्य आसीदजाते दीर्घायुषि गुणग्रामः। धन्यः
स भूभृत्, यस्य वंशे मणिरिव मुक्तामयः संभूतोऽसि । एवंविधस्य च पुण्यवतः कथंचित्प्राप्तस्य केन प्रियं समाचराम इति पारिप्लवं चेतो नः । सकलवनचरसार्थसाधारणस्य कन्दमूलफलाय गिरिसरिदम्भसो वा के वयम् । अपरोपकरणीकृतस्तु कायकलिरयमस्माकं सर्वस्वमवशिष्ट-
मिष्टातिथ्याय । स्वायत्ताश्चविद्यन्ते विद्याविन्दयः कतिचित् । उपयोगं तु न प्रीतिर्विचारयति । यदि च नोपरुणद्धि कंचित्कार्यलवम् अरक्षणीयाक्षरं
वा कथनीयम्, तत्कथयतु भवान्, श्रोतुभभिलषति हृदयं सर्वमिदं नः । केन कृत्यातिभारेण भव्यो भूपितवान्भूमिमेतामभ्रमणयोग्याम् । कियदवधिर्वा शून्याटवीपर्यटनक्लेश: कल्याणराशेः । कस्माच्च संतप्तरूपेव ते तनुरियमसंतापार्हा विभाव्यते" इति ॥
 
 
 
 
 
 
कार्यमेव युक्तमेव । भूभृत् राजा, पर्वतश्च । वंशः कुलम्, वेणुश्च ।
मुक्तामय मौक्तिकस्वरूपः, त्यक्तरोगश्च । पारिप्लवं चञ्चलम् । कायः कलिरिव कायकलिः दुष्ट शरीरम् । अनास्थया एवमुक्तिः ॥