This page has been fully proofread once and needs a second look.

अष्टमोच्छवासः ।
 
यस्मिन् जातोऽसि । सा सुजाता जननी, या सकलजीवलोक-
जीवितजन- कमजनयदायुष्मन्तम् । पुण्यवन्ति पुण्यान्यपि तानि,
येषामसि परिणामः । भव्यः स पुरुषभावः, भवत्यवस्थितो यः ।
यत्सत्यं मुमुक्षोरपि मे पुण्यभाज- मालोक्य पुनः श्रद्धा जाता मनु-
व्
ष्यजन्मनि । नेच्छद्भिरपि अस्माभिर्दृष्टः कुसुमायुधः । कृतार्थमद्य
चक्षुर्वनदेवतानाम् । अमृतमयस्य भवतो वचसां माधुर्यं कार्यमेव ।
अस्य त्वीदृशे शैशवे विनयस्योपाध्यायं ध्यायन्नपि न संभावयामि
भुवि । सर्वथा शून्य आसीदजाते दीर्घायुषि गुणप्ग्रामः। धन्यः

स भूभृत्, यस्य वंशे मणिरिव मुक्तामयः संभूतोऽसि । एवं
विधस्य च पुण्यवतः कथंचित्प्राप्तस्य केन प्रियं समाचराम इति
पारिप्लवं चेतो नः । सकलवनचरसार्थसाधारणस्य कन्दमूल-
फलाय गिरिसरिदम्भसो वा के वयम् । अपरोपकरणीकृतस्तु
कायकलिग्यमस्माकं सर्वस्वमवशिष्ट-
मिष्टातिथ्याय । स्वायत्ताश्च
विद्यन्ते विद्याविन्दवःयः कतिचित् । उपयोगं तु न प्रीतिर्विचार-
यति । यदि च नोपरुणद्धि कंचित्कार्यलवम् अरक्षणीयाक्षरं

वा कथनीयम्, तत्कथयतु भवान्, श्रोतुभभिलषति हृदयं सर्व-
मिदं नः । केन कृत्यातिभारेण भव्यो भूपितवान्भूमि मेतामभ्रमण-
योग्याम् । कियदवधिर्वा शून्याटवीपर्यटनक्लेश: कल्याणर। राशेः ।
कस्माच्च संतप्तरूपेव ते तनुरियमसंतापार्हा विभाव्यते" इति ॥
 
,
 

 
 
 
 
 
 
कार्यमेव युक्तमेव । भूभृत् राजा, पर्वतश्च । वंशः कुलम्, वेणुश्च ।

मुक्तामय मौक्तिकस्वरूपः, त्यक्तरोगश्च । पारिष्ठप्लवं चञ्चलम् । कायः कलिरिव
कायकलिः दुष्ट शरीरम् । अनास्थया एवमुक्तिः ॥