2023-02-19 13:18:39 by ambuda-bot
This page has not been fully proofread.
हर्षचरितसंग्रहे
गुरुमिव अभ्यागतं बहु मन्यमानः स्वेनासनेन 'आध्वमन्त्र' इति
निमन्त्रयांचकार । पार्श्वे स्थितं च शिष्यमब्रवीत् -- "आयुष्मन्,
उपानय कमण्डलुना पादोदकम्" इति ॥
७२
राजा त्वचिन्तयत् – "अलोहः खलु संयमनपाश: सौ-
जन्यमभिजातानाम् । स्थाने खलु तत्रभवान्गुणानुरागी ग्रहवर्मा
बहुशो वर्णितवानस्य गुणान् " इति । प्रकाशं चाबभापे - "भग-
वन्, दर्शनपुण्यानुगृहीतस्य मम पुनरुक्त इवायमार्यप्रयुक्तः प्रति-
भात्यनुग्रहः । चक्षुष्प्रदानप्रसादस्वीकृतस्य च परकरणमिव आस-
नादिदानोपचारचेष्टितम् । संभाषणामृताभिषेकप्रक्षालितसकल-
वपुषश्च मे प्रदेशवृत्ति पाद्यमप्यपार्थकम् । आसतां भवन्तो यथा-
सुखम् । आसीनोऽहम्" इत्यभिधाय क्षितावेवोपाविशत् ॥
"अलंकारो हि परमार्थतः प्रभवतां प्रश्रयातिशयः,
रत्नादिकस्तु शिलाभारः" इत्याकलव्य पुनः पुनरर्थ्यथ्यमानोऽपि
यदा न प्रत्यपद्यत पार्थिवो वचनम्, तदा स्वमेवासनं पुनरपि भेजे
भदन्तः । स्थित्वा च कांचित्कालकलामवादीत् –"अद्यप्रभृति
न केवलमयमनिन्द्यः, वन्द्योऽपि प्रकाशितसत्सार : संसार: । किं
नाम नालोक्यते जीवद्भिरद्भुतम् येन रूपमचिन्तितोपनतमिदं
दृक्पथमुपगतम् । एवंविधैरनुमीयन्ते जन्मान्तरावस्थितसुकृतानि
हृदयोत्सवैः । इहापि जन्मनि दत्तमेवास्माकममुना तपःक्लेशेन
फलमसुलभदर्शनं दर्शयता देवानां प्रियम् । आ तृप्तेः पीतममृत-
मीक्षणाभ्याम् । जातं निरुत्कण्ठं मानसं निवृत्तिसुखस्य । महद्भिः
पुण्यैर्विना न विश्राम्यन्ति सज्जने त्वादृचि दृशः । सुदिवसः सः,