This page has been fully proofread once and needs a second look.

अष्टमोच्छ्वासः ।
 
,
 
करकमिव वारिधाराभिः पूरयन्तम् इतस्ततः पिपीलक श्रेणीनां
श्यामाक- तण्डुलकणान् स्वयमेव विकिरन्तम्, अरुणेन चीवरपट-
लेन श्म्रदीयसा संवीतम्, अनौद्धत्याद्धोमुखेन मन्दमुकुलितकुमु-
दाकारेण स्निग्धधवल प्रसन्नेन चक्षुषा जनक्षुण्णक्षुद्रजन्तु जीवनार्थ-
ममृतमिव वर्षन्तम्, सर्व शास्त्राक्षरपरमाणुभिरिव निर्मितम्, पर-
मसौगतमपि अनवलोकितेश्वरम्, आलोकमिव यथावस्थितस-
कलपदार्थप्रकाशकं दर्शनार्थिनाम्, सुगत स्याप्यभिगमनीयमिव,
धर्मस्याप्याराधनीयमिव जन्म यमस्य, नेमिं नियमस्य तत्त्वं
तपसः, शरीरं शौचस्य, कोशं कुशलस्य, वेश् विश्वासस्य, सर्वस्वं

सर्वज्ञतायाः, पारं परानुकम्पायाः, मध्यमे वयसि वर्तमा
नं दिवाकरमित्र- मद्राक्षीत् । अतिप्रशान्तगम्भीराकारारोपित बहुमानश्च
दूरादेव शिरसा मनसा वचसा च ववन्दे ॥
 

 
दिवाकरमित्रस्तु मैत्रीमयः प्रकृत्या, विशेषतस्तेनापरेणादृष्ट-
पूर्वेणामानुप- लोकोचितेन भ्राजिष्णुना भूपतेरप्राकृतेन आकारविशे-
षेण तेन चाभिजात्य प्रकाशकेन गरीयसा प्रश्रयेण आह्लादितः,
चक्षुषि च चेतसि च युगपद- ग्रहीत् । धीरस्वभावोऽपि संपादित -
ससंभ्रमाभ्युत्थानः उत्क्षिप्य दक्षिणं हस्तम,म् मधुरया वाचा सगौ-
रवमारोग्यदानेन राजानमन्वग्रहीत् । अभ्यनन्दच्च स्वागतगिरा ।
 

 
 
 
 
 
 
करकः कमण्डलुः । चीवरं वल्कलम् । नास्ति अवलोकितेश्वरः बुद्ध-
विशेषो यस्येति विरोधः । अनवलोकितः अदृष्टः ईश्वर प्रभुर्येनेति परिहारः ।

"अहिंसा सत्यास्तेय ब्रह्मचर्यापरिग्रहा यमाः '" " शौच संतोषतपःस्वाध्यायेश्वर-
श्वरप्रणिधानानि नियमाः" इति योगसूत्रे । आभिजात्यं महाकुलीनत्वम् ॥
 

 
-