This page has not been fully proofread.

हर्षचरितसंग्रहे
 
निषेवमाणैर्वीतरागै राहतैर्मस्करिभिः श्वेतपटैः पाण्डुरिभिक्षुभि-
र्भागवतैर्वर्णिभिः कापिलैर्लोकायतिकैः काणादैरौपनिषदैरीश्वरकार-
णिकैः कारंधमिभिर्धर्मशास्त्रिभिः पौराणिकैः साप्ततन्तवैः शब्दः
पाञ्चरात्रिकैरन्यैश्च स्वान् स्वान् सिद्धान्तान् शृण्वद्भिरभियुक्तैश्चि
न्तयद्भिश्च संशयानैश्च निश्चिन्वद्भिश्च विवदमानैश्च व्याचक्षाणैश्च
शिष्यतां प्रतिपन्नैर्दूरादेवात्रेद्यमानम्, अतिविनीतैः कपिभिरपि
चैत्यकर्म कुणैत्रिसरणपरैः परमोपासकैः शुकैरपि शाक्यशासन:-
कुशलैः कोशं समुपदिशद्भिः अनवरतश्रवणगृहीतालोकैः कौशिक-
रपि बोधिसत्त्वजातकानि जपद्भिः उपास्यमानम्, आसनोपान्तोप-
विष्टविस्रव्धानेक केसरिशाबकतया मुनिपरमेश्वरम् अकृत्रिम इक
सिंहासने निषण्णम्, उपशममिव पिवद्भिर्वनहरिणैर्जिह्वालताभि-
रुपलिह्यमानपादपल्लवम्, वामकरतलनिविष्टेन नीवारमनता पारा-
वतपोतेन कर्णोत्पलेनेव प्रियां मैत्री प्रसादयन्तम्, इतरकर किस-
लयन खमयूख लेखाभिर्जनितजनव्यामोहमुद्द्वीवं मयूरं मरकतमणि-
आर्हता: जैनाः । भागवताः विष्णुभक्ताः । वर्णिनः ब्रह्मचारिणः । कापिलाः
सांख्याः । ईश्वरकारणिकाः नैयायिकाः । कारंघमिनः धातुवादिनः । सप्त-
तन्तुः यागः, साप्ततन्तवाः मीमांसकाः । पाञ्चरात्रिका: वैष्णवभेदाः । अभि
युक्ताः व्यवस्यन्तः । चैत्यं बुद्धालयः बुद्धबिम्बं वा । त्रयाणां सरणानां मार्गा-
णाम् उपायानां समाहार: त्रिसरणम् । त्रिशरणेति पाठान्तरम् । बुद्धः धर्मः
संघश्चेति त्रीणि सरणानि । शाक्यः बुद्धः । कोश: वसुबन्धुकृतः बौद्धसिद्धा-
न्तग्रन्थ इति शंकरः । आलोकः ज्ञानं प्रकाशश्च । कौशिका: उलूका: । बोधि
सत्त्व इति बुद्धस्य पूर्वजन्मनाम । जातकानि पूर्वजन्मकथा: ।
। "बोधिः समाधिः
तत्प्रधानं सत्त्वं बुद्धभट्टारक तदीयानि जातकानि जीमूतवाहनादिजन्मकथा: ***
इति शंकरः । मैत्रींम् अपकारिण्यपि प्रीतिम् ॥