This page has been fully proofread once and needs a second look.

अष्टमोच्छ्वासः
 
६९
 
दयति प्रव्रज्या, किं पुनः सकलजनमनोमुषि विदुषि जने । यतो
नः कुतूलि हृदयमभूत्सततमस्य दर्शनं प्रति । प्रासङ्गिकमेवेदमा-
पतितमतिकल्याणम् । पश्याम: प्रयत्नप्रार्थितदर्शनं जनम्" इति ।
प्रकाशं चाब्रवीत् – "अङ्ग, समुपदिश तमुद्देशम् ; यत्रास्ते स
पिण्डपाती" इति । एवमुक्त्वा च तेनैवोपदिश्यमानवर्त्मा प्राव
तर्त गन्तुम् ॥
 
;
 
रवः,
 

 
अथ क्रमेण गच्छत एव तस्य अनवकेशिनः, कुड्लित-
कर्णिकाराः, प्रचुरचम्पकाः, स्फीतफलेग्रहयः, फलभरभरितनमे-
रवः, नीलदलनलद नारिकेलनिकराः, प्रचुरपूगफलाः, परिमल-
घटितघ्राणतृप्तयः, मरकतमणि श्यामलाः क्रीडापर्वतका इव वस-
न्तस्य, तनया इवाटवीजाता विन्ध्यस्य, पातालान्धकारराशय इव
भित्त्वा भुवमुत्थिताः इन्द्रनीलमया: प्रासादा इव वनदेवतानां
पुरस्ताद्दर्शन पथमवतेरुस्तरवः ॥
 
ei
 

 
ततो नरपतेरभवन्मनसि — अदूरवर्तिना खलु भवितव्यं
भदन्तेनेति । अवतीर्य च गिरिसरिति समुपस्पृश्य, अस्मिन्नेव
प्रदेशे स्थापयित्वा वाजिसेनाम्, अवलम्ब्य च तपस्विजनदर्शनो-
चितं विनयं हृदयेन, विरलैरेव राजभिरनुगम्यमानः, चरणा-
भ्यामेव प्रावर्तत गन्तुम् ॥
 
WER
 

 
अथ तेषां तरूणां मध्ये, नानादेशीयैः स्थानस्थानेषु स्थाणू-
जा
नाश्रयद्भिः शिलातले पूषूपविष्ठैः लताभवनान्यध्यावसद्भिः तरुमूलानि
 

 
 
 
 
 
प्रव्रज्या संन्यासः । अवकेशी अफलः । फलानि गृह्णन्तीति फलेग्रहयः ।

फलेग्रहिरात्मंभरिश्च" । स्थाणून्ङ्कून् ॥