This page has not been fully proofread.

६८
 
हर्षचरित संग्रहे
 
भवन्तः । सेनापतेर्वा अन्यस्य वा तदनुजीविनः कस्यचिदुदार-
रूपा नारी आगता भवेद्दर्शनम् ?" इति । निर्घातस्तु भूपालाला-
पनप्रसादेनात्मानं बहुमन्यमानः, दर्शितादरं व्यज्ञापयत्-
"देव, प्रायेणात्र हरिण्योऽपि नापरिगता: संचरन्ति सेनापतेः,
कुत एव नार्यः । नाप्येवरूपा काचिवड़ा । तथापि देवादेशादि-
दानीमन्वेषणं प्रति प्रतिदिनमनन्यकृत्यैः क्रियते यत्नः । इतञ्चार्ध-
गव्यूतिमात्र एव मुनिमहिते महति महीधरमालामूलरुहि महीरुह
षण्डे पिण्डपाती प्रभूतान्तेवासिपरिवृतः पाराशरी दिवाकरमित्र-
नामा गिरिनदीमाश्रित्य प्रतिवसति । स यदि विन्देद्वार्ताम्" इति ॥
 
तच्छ्रुत्वा नरपतिरचिन्तयत् – "श्रूयते हि तत्रभवतः
सुगृहीतनाम्नः स्वर्गतस्य ग्रहवर्मणो वालमित्रं मैत्रायणीयत्रयीं
विहाय ब्राह्मणायनो विद्वानुत्पन्न समाधिः सौगते मते युवैव कापा-
याणि गृहीतवानिति । प्रायशश्च जनस्य जनयति सुहृदपि दृष्टो
भृशमाश्वासम् । अभिगमनीयाश्च गुणाः सर्वस्य । कस्य न प्रती-
क्ष्यो मुनिभावः । भगवती वैधेयेऽपि धर्मगृहिणी गरिमाणमापा-
अपरिगताः अज्ञाताः । गप्यूतिः स्त्री कोशयुगम्" । पिण्डपातः
अस्यास्तीति पिण्डपाती भैक्षोपजीवी । अन्त समीपे वसन्तीति अन्तेवासिनः
शिष्याः । पाराशर्येण व्यासेन प्रोक्तं भिक्षुसूत्रमधीते पाराशरी भिक्षुः ।
मैत्रायणीयः यजुर्वेद मैत्रायणीय शाखानुयायी । नयी वेदः । ब्राह्मणस्य
अपत्यं ब्राह्मणायनः ।
त्रयीं
 
ब्राह्मणायनः द्विजवरिष्ठः " इति शंकरः ।
 
विहाय ब्राह्मणायनः - वेदाध्ययनं विना अन्येषां ब्राह्मणकृत्यानामनुष्ठाता ।
त्रयीं विहाय गृहीतवानिति संबन्ध इत्येके । समाधिः नियमः, चित्तैकाग्र्यं
वा । मनस्सङ्ग इत्यन्ये । सौगते बौद्धे । प्रतीक्ष्यः पूज्यः ॥