This page has not been fully proofread.

अष्टमोच्छ्वासः ।
 
स्थळीं सदा समुद्वहन्तम् अवतंसितैकशुकपक्षकप्रभाहरितायमा-
नेन पिनद्धकाचरकाचमणिकर्णिकेन श्रवणेन शोभमानम्, किंचि
च्चुल्लस्य प्रविरलपक्ष्मणश्चक्षुषः सहजेन रागरोचिषा रसायन-
रसोपयुक्तं तारक्षवं क्षतजमिव क्षरन्तम् अवनाटनासिकम्,
चिपिटाघरम्, चिकिनचिबुकम्, जंगममिव गिरितटतमालपाद-
पम्, पाकलं करिकुलानाम, धूमकेतुं मृगराजचक्राणाम्, महा-
- नवमीमहं महिषमण्डलानां शबरयुवानमादाय आजगाम ॥
 
1
 
,
 
दूरे च स्थापयित्वा विज्ञापयांबभूव – "देव, सर्वस्यास्य
विन्ध्यस्य स्वामी सर्वपल्लीपतीनां प्राग्रहरः शबरसेनापतिर्भूकम्पो
नाम । तस्यायं निर्धातनामा स्वत्रीयः सकलस्यास्य विन्ध्यका-
न्तारस्य पर्णानामप्यभिज्ञः, किमुत प्रदेशानाम् । एनं पृच्छतु
देवः । योग्योऽयमाज्ञां कर्तुम्" इति कथिते च निर्धातः क्षिति-
तलनिहितमौलिः प्रणाममकरोत् । उपनिन्ये च तित्तिरिणा सह
शशोपायनम् ॥
 
अवनिपतिस्तु संमानयन्, स्वयमेव तमप्राक्षीत् – "अङ्ग,
अभिज्ञा यूयमस्य सर्वस्योद्देशस्य । विहारशीलाञ्च दिवसेष्वेतेषु
 

 
काचर: कपिलः । कर्णिका कर्णभूषणम् । "कर्णललाटात्कन्नलंकारे " ।
चुलं क्लिन्नम् । रसायनम् औषध विशेषः ।
तरक्षूगां व्याघ्राणामिदं
तारक्षवम् । अवनाट चिपिट चिकिनशब्दाः प्रकृते नतार्थकाः । शकरस्तु
"अत्रनाटः निनः । चिपिट. स्थूल ईषलम्वश्च । चिकिनं स्थूलेषस्वम् ।
चिबुकम् अधरावः" इति लिखति । पाकल: हस्तिज्वरः । महः उत्सवः ।
महानवमी आश्वयुजशुक्लाष्टमी मूलनक्षत्रयुता । महानवम्यां महिषा देव्यै
विशस्यन्ते । पल्ली ग्रामटिका । स्वसुः अपत्यं स्वस्त्रीयः ।