This page has not been fully proofread.

६६
 
हर्षचरितसंग्रहे
 
विटपसंकटैः कथमपि कुक्कुटरटितानुमीयमानसंनिवेश: वेणुपोट-
दलनलशरमयवृतिबितिभित्तिभिः शाल्मलीफलतूलसंचयबहुलै:
संनिहितनलशालिशालूरखण्डकुमुद बीजवेणुतण्डुलै: अटवीकुटुम्बिनां
गृहैरुपेतं वनप्रामकं ददर्श । तत्रैव चावसत् ॥
 
इति भट्टबाणविरचिते हर्षचरिते छत्रलब्धिर्नाम
 
सप्तम उच्छवासः ।
 
॥ अष्टम उच्छ्रासः ॥
 
अथापरेधुरुत्थाय पार्थिवस्तस्माद्ब्रामकान्निर्गत्य विवेश
विन्ध्याटवीम् । आटु च तस्यामितश्चेतश्च सुबहून् दिवसान् ॥
 
एकदा तु भूपतेर्भ्रमत एव आटविकसामन्तशरभकेतोः
सूनुर्व्याघ्रकेतुर्नाम, कुतोऽपि, कज्जलश्यामलम्, श्यामलतावल-
येन अघिललाटमुच्चैः कृतमौलिबन्धम् अन्धकारिणीमकारणभुवा
भ्रुकुटिभङ्गेन त्रिशाखेन त्रियामामिव साहससहचारिणीं ललाट-
7
 
संनिवेश: स्थितिः । वेणुपोटदला: पाटितानां वेणूनां शलाकाः । नलशरौ
तृणविशेषौ । पोटगलेति पाठे पोटगलः तृणविशेषः । शालूरखण्डाः कल्हारादि-
कन्दसमूहाः । शालूकेति पाठान्तरम् । शालूकं पद्ममूलमिति शंकरः । वेणुतण्डुल
इत्येकम्, भिन्नं वा पदम् ॥
 
"