This page has been fully proofread once and needs a second look.

सप्तमोच्छवासः ।
 
उदकुम्भाकृष्टपाटलशर्कराशक लशिशिरीकृतदिशां घटमुखघटितकर-

हाटपाटलपुष्पपुटानाम् अटवीप्रवेशप्रपाणां शैत्येन त्याजयन्तमिव
ग्रैष्म- मूष्माणम्, क्वचिदन्यत्र ग्राहयन्तमिव अङ्गारीयदारुसंग्रह-
दाहिभिः व्योकारैः, सर्वतश्च प्रातिवेश्यविपयवासिनी समासन्न-
ग्रामगृहस्थापितस्थविरपरिपाल्य- मानपाथेय स्थगितेन कृतदारुणदारु-
व्यायामयोग्याङ्गाभ्यङ्गेन स्कन्धाध्यालितसित कठोरकुठारकण्ठलम्ब-
मानप्रातराशपुटेन पाटञ्च्चरप्रत्यवायप्रतिपन्नपट- च्चरेण काष्ठसंग्रहार्थ-
मटवीं प्रविशता नैकटिककुटुम्बिलोकन व्याप्तदिग- न्तरम्, अति-
विप्रकृष्टान्तरैः मरकत स्निग्धस्नुहीवाटवेष्टितैः कार्मुककर्मण्य- वंश-
pok
 

 
 
 
 
 
 
पाटलाः श्वेतरताः, शर्कराः पानककलनाय उद्कुम्भेषु निक्षिप्ता. मधुराः

खण्डविकृतयः । जलनैर्मल्याय पाटलवर्णाः दृषत्कणा निक्षिप्यन्त इत्यन्ये ।

शैत्याय उदकुम्भानामधस्तात् आर्द्राः सिकताः प्रक्षिप्यन्त इति तदभिप्राये-णेद-
मिति परे । घमुखेषु घटिताः स्थापिताः करहाटानां पद्मकन्दानां पाटलपुष्पाणी
णां च पुढाःटाः यासु ताः तादृश्य: । प्रपाः पानीयशालाः । अङ्गारेभ्य इमानि अङ्गारी-
याणि । "तर्थं विकृतेः प्रकृतौ" इति छः । "व्योकारो लोकारकः" इत्य-
मरः । प्रानिषेश्यविषयः समीपस्थो देशः । समासन्नं यत् ग्रामगृहं ग्रामचावटि
इति भाषायां प्रसिद्धं तत्र स्थापितानि यानि स्थविर- परिपाल्यमानानि पाथेयानि
मार्गगमनोपयोगीनि अपूपादीनि तैः स्थगितेन तत्क्रयणाय किंचित्कृत विलम्बेन ।
समासन्नो यो ग्रामः तत्रत्ये गृहे स्थापितः स्थविर वृद्धः तेन परिपाल्यमानैः
पाथेयै: स्थगितेन व्याप्तेन सहितेन वेति केचित् । व्यायामः देहश्रम । अभ्यङ्गः
तैलानुलेपनम् । प्रातराशपुटः कल्यवर्तमूतः । गृहं पायन् चरतीति पाटश्च्चरः
तस्करः । प्रत्यवायः दोषः पीडेति यावत् । प्रतिपन्नं स्वीकृतम् । पटच्चरं जीर्ण-
वत्रम् । निकटे भत्रःवः नैकटिकः । वाट: श्रेणि: । कर्मगिणि साधवः कर्मण्याः ।
कर्मणे प्रभवति कार्मुकम् । कार्मुककर्मण्याः धनुष्करणयोग्याः वंशविटपा वेणु-
शाखा: तैः संकटानि व्याप्तानि तैः ॥
 
5
 
-