This page has not been fully proofread.

हर्षचरितसंग्रहे
 
कारमादिक्षदध्यक्षान् । अन्यस्मिंश्चाहनि, हयैः स्वसारमन्वेष्टु-
मुच्चचाल विन्ध्याटवीम्, अवापच परिमितैरेव प्रयाणकैस्ताम् ॥
 
६४
 
अथ प्रविशन् दूरादेव दह्यमानषष्टिकबुस विसरविसारिवि-
भावसूनां वन्यधान्यबीजधानीनां धूमेन धूसरिमाणमादधानैः
शुष्कशाखासंचयरचितगोवाटवेष्टितविकटवटैः व्यापादितवत्सरूप-
करोषरचितव्याघ्रयन्त्रैः यन्त्रितवनपालहठहियमाणपरग्रामीणका-
ष्ठिककुठारै: गहनतरुषण्डनिर्मितचा मुण्डामण्डपैर्वनप्रदेशै : प्रकाश-
मानम्, अटवीप्रायप्रान्ततया कुटुम्बभरणाकुलै : कुद्दालप्रायकृषि-
भिः कृषीवलैर्भज्यमानभूरिशालिखल क्षेत्रखण्डकम् उपक्षेत्रमुपर-
चितैरुच्चैर्मश्चैश्च सूच्यमानश्वापदोपद्रवम्, दिशि दिशि च प्रति-
मार्ग द्रुमकृतानाम् अध्वगजनजग्धजम्बूफलास्थिशबलसमीपभुवाम्
 
"
 
.
 
षष्टिकानां षष्टिरात्रेण पच्यमानानां धान्यानां बुसाः कडङ्गराः +
" षष्टिकाः षष्टिरात्रेण पच्यन्ते " । विभावसुः अग्नि । बीजधानी बीजावापक्षे-
त्रम्, नात्तड्काल इति द्रविडभाषायां प्रसिद्धम् । गोवाट: गोवन्धनस्थानम्,
माइति यस्य भाषायां प्रसिद्धिः । विकटः विशालः । वत्सरूपकाः
प्रशस्खा बत्सतराः । यन्त्रिताः अधिकृताः, अयन्त्रितेति पाठे स्वतन्त्रा
इत्यर्थः । परग्रामीणा: ग्रामान्तरादागताः । काष्ठैः जीवन्ति दीव्यन्ति
वा, काष्ठं पण्यम् एषामिति वा काष्टिकाः काष्ठजीविनः । कुद्दालो नाम
धान्यविशेषः, तत्प्राया तत्प्रचुरा कृषिः येषां तैः । कुद्दालः मलैयकत्ति इति
द्राविडाः । ब्रीहिभेद इत्यन्ये । कृषिः एषामस्तीति कृषीवलाः कर्षकाः ।
भज्यमानाः मृद्यमानाः भूरयः शालयः धान्यविशेषः येषु ते, तादृशाः खलक्षे-
त्राणां खण्डाः यस्मिन् तत् तादृशम् । खलक्षेत्रं नाम कळमिति भाषायां
प्रसिद्धम् । श्वापदः दुष्टमृग ॥
 
-