This page has been fully proofread once and needs a second look.

६२
 
हर्षचरितसंग्रहे
 
नमस्तेभ्यः सुखेभ्यः । तिष्ठतु दूर एव सा श्रीः । यदर्थमुत्तमाङ्गं
-
गां गमिष्यति । ( यदि ) वराक: सेवकोऽपि मर्त्यमध्ये, (तदा)
-
राजिलोऽपि वा भोगी, पुलाकोऽपि वा कलमः । तदेवमभिनन्दि-
तास्मदीयप्रणयो देवोऽपि, दिवसैः कतिपयैरेव परागतः प्राग्ज्यो-
तिषेश्वर इति करोतु चेतसि " इत्युक्त्वा तूष्णीमभूत् । अचिराञ्च
नमस्कृत्य निर्जगाम ॥
 

 
राजापि रजनीं तां कुमारदर्शनौत्सुक्यस्वीकृतहृदयः समनै-
षीत् । आत्मार्पणं हि महताममूलमन्त्रमयं वशीकरणम् । प्रभाते च
प्रभूतं प्रतिप्राभूतं प्रधान प्रतिदूताधिष्ठितं दत्त्वा हंसवेगं प्राहिणिोत् ।
·
आत्मनापि ततः प्रभृति प्रयाण कैरनवरतैरभ्यमित्रं प्रावर्तत ॥
 

 

 
कदाचितु राज्यवर्धनभुजबलोपार्जितमशेषं मालवराजसा-
धनमादायागतं समीप एवावासितं लेखहारकाद्भण्डिमशृणोत् ।
श्रुत्वा चाभिनवीभूतभ्रातृ- शोकहुताशन: कातरहृदयो बभूव ।
अतिष्ठच्च समुत्सृष्टसकलव्यापारः, प्रतीहारनिवारणनिभृतनिःशब्द
परिजने निजमन्दिरे सराजकपरिवार, तदागमनमुदीक्षमाणो
मुहूर्तम् ॥
 

 
अथ भण्डिरेकेनैव वाजिना कतिपयकुलपुत्रपरिवृतो मलि
नवासाः, पातकीव अपराधीव द्रोहीव मुषित इव राजद्वारमा
जगाम । अवतीर्य च तुरंगमादव-नतमुखो विवेश राजमन्दिरम्
 

 
 
 
 
 
राजिलः निर्विषो द्विमुखः सर्पः । पुलाक: तुच्छधान्यम् । मूल
स्त ओषधि- मूलम् औषधमिति तात्पर्यम् । अभ्यभित्रं शत्रुमभिमुखीकृत्य
आवासितं संजातावासम् । निभृतः निश्चलः ॥
 
"
 
-