This page has not been fully proofread.

६२
 
हर्षचरितसंग्रहे
 
नमस्तेभ्यः सुखेभ्यः । तिष्ठतु दूर एव सा श्रीः । यदर्थमुत्तमाङ्गं
-गां गमिष्यति । ( यदि ) वराक: सेवकोऽपि मर्त्यमध्ये, (तदा)
- राजिलोऽपि वा भोगी, पुलाकोऽपि वा कलमः । तदेवमभिनन्दि-
तास्मदीयप्रणयो देवोऽपि, दिवसैः कतिपयैरेव परागतः प्राग्ज्यो-
तिषेश्वर इति करोतु चेतसि " इत्युक्त्वा तूष्णीमभूत् । अचिराञ्च
• नमस्कृत्य निर्जगाम ॥
 
राजापि रजनीं तां कुमारदर्शनौत्सुक्यस्वीकृतहृदयः समनै-
षीत् । आत्मार्पणं हि महताममूलमन्त्रमयं वशीकरणम् । प्रभाते च
प्रभूतं प्रतिप्राभूतं प्रधानप्रतिदूताधिष्ठितं दत्त्वा हंसवेगं प्राणिोत् ।
· आत्मनापि ततः प्रभृति प्रयाणकैरनवरतैरभ्यमित्रं प्रावर्तत ॥
 

 
कदाचितु राज्यवर्धनभुजबलोपार्जितमशेषं मालवराजसा-
धनमादायागतं समीप एवावासितं लेखहारका इण्डिमशृणोत् ।
श्रुत्वा चाभिनवीभूतभ्रातृशोकहुताशन: कातरहृदयो बभूव ।
अतिष्ठच समुत्सृष्टसकलव्यापारः, प्रतीहारनिवारणनिभृतनिःशब्द
परिजने निजमन्दिरे सराजकपरिवार, तदागमनमुदीक्षमाणो
मुहूर्तम् ॥
 
अथ भण्डिरेकेनैव वाजिना कतिपयकुलपुत्रपरिवृतो मलि
नवासाः, पातकीव अपराधीव द्रोहीव मुषित इव राजद्वारमा
जगाम । अवतीर्य च तुरंगमादवनतमुखो विवेश राजमन्दिरम्
 
राजिलः निर्विषो द्विमुखः सर्पः । पुलाक: तुच्छधान्यम् । मूल
ओषधिमूलम् औषधमिति तात्पर्यम् । अभ्यभित्रं शत्रुमभिमुखीकृत्य
आवासितं संजातावासम् । निभृतः निश्चलः ॥
 
"
 
-