This page has been fully proofread once and needs a second look.

सप्तमोच्छ्वासः ।
 
६१
 
अभृतदास्यो दश दिशः । श्रेयांश्च संकल्पः कुमारस्य । स्वयं
बाहुशाली मयि च समालम्बितशरासने सुहृदि हरात् ते
कमन्यं नमस्यति ? संवर्धिता मे प्रीतिरमुना संकल्पेन । अवले-
पिनि पशावपि केसरिणि बहुमानो मे हृदयस्य, किंपुनः सुहृदि ।
तत्तथा यतेथाः, यथा न चिरमियस्मान्केङ्क्लेशयति कुमारदर्शनो-
त्कण्ठा " इति ॥
 
ww
 

 
हंस वेगस्तु विज्ञापयांबभूव - "देव, किमपरमिदानीं
क्लेशयति ? अभिजात मभिहितं देवेन । सेवाभीरवो हि सन्तः ।
तत्रापि विशेषेणायमहंकारधनो वैष्णवो वंशः । आस्तां तावदस्म-
त्स्वामिवंशः । पश्यतु देव: - पुरुषस्य हि सेवां प्रति दुर्जनन्येवाति-
वृद्धया दुर्गत्या वा अभिमुखी क्रियमाणस्य, कुडुम्बिन्येवासंतुष्टया
तृष्णया वा प्रेर्यमाणस्य, दुरपत्यैरिव यौवनजनितै- र्नानाभिलाषि-
भिरसत्संकल्पैर्वा आकुलीक्रियमाणस्य, नृपशोस्तृणेऽपि लब्धे

कंधरामवनमयतः, जठरपरिपूरणमात्र प्रयोजनजन्मनो मांसपि-
ण्डस्य गर्भरोगस्य मातुः भृतकस्य किं प्रायश्चित्तम् ? का
प्रतिक्रिया ? क्व गतस्य शान्तिः ? कीदृशम् जीवितम् ? कः पुरुषा-
भिमान: ? किकिंनामानो विलासा: ? कीदृशी भोगश्रद्धा ? प्र-
पङ्क इव सर्वमधस्तान्नयति दारुणो दासशब्दः धिक् तदुच्छव-
सितम् । उपयातु तद्धनं निधनम् । अभवनिर्भूतेरस्तु तस्याः ।
 
--
 

 
 
 
 
 
अभृताः सत्यः दास्यः वेतन विना परिचारिकाः । अभिजातं न्या-
य्यम् रमणीयं वा । दुर्गतिः दैन्यम् । भृतकः सेवकः । निधनं नाशम् ।
अभवनिः अनुत्पत्तिः । "आक्रोशे नञ्यनिः" ॥
 

 
,