This page has been fully proofread once and needs a second look.

हर्षचरित संग्रहे
 
अयमस्य च शैशवादारभ्य संकल्पः स्थेयान्— स्थाणुपा-
दारविन्दद्वयात् ते नाहमन्यं नमस्कुर्यामिति । ईदृशश्चायं मनो-
रथस्त्रिभुवनदुर्लभस्त्रयाणा- मन्यतमेन संपद्यते – सकलभुवनविज-
येन वा, मृत्युना वा, यदिवा जगत्येक वीरेण देवोपमेन मित्रेण ।
मैत्री च प्रायः कार्यव्यपेक्षिणी क्षोणीभृताम् । कार्य च कीदृशं
नाम तद्भवेत् यदुपन्यस्यमानं मित्रतामुपनयेद्देवम् । देवस्य हि

यशांसि संचिचीषतो बहिरङ्गभूतानि साधनानि । वाहावेव च
केवले निषण्णस्य शेषावयवानामपि साहायक संपादनमनोरथो
निरवकाशः, किमुत बाह्यजनस्य । तदत्र प्रार्थनामात्रमेव केवल-
मनुरुध्यमानः शृणोतु देवः – प्राग्ज्योतिषेश्वरो हि देवेन एक-
पिङ्ग इवानङ्गद्विषा, धनंजय इव पुष्कराक्षेण, मलयानिल इव
माधवेन, अजर्यं संगतमिच्छति । यदि च देवस्यापि मैत्रीयति

हृदयम्, अवगच्छति च - - पर्यायान्तरितं दास्यमनुतिष्ठन्ति सुहृद
इति, ततः किमास्यते ? समाज्ञाप्यताम् । अनुभवतु गाढोपगूढानि
देवस्य कामरूपा- धिपतिः । नाभिनन्दति चेद्देवः प्रणयम्, आज्ञाप-
यतु - किं कथनीयं मया स्वामिने ? " इति ॥
 
-
 
-
 

 
विरतवचसि तस्मिन्, भूपाल: सादरं जगाद – "हंसवेग,
कथमिव तादृशि महात्मनि महाभिजने पुण्यराशौ गुणिनां प्राग्रहरे
परोक्षसुहृदि स्त्रिह्यति, मद्विधस्यान्यथा स्वप्नेऽपि प्रवर्तेत मनः ।
-
सुबहुगुणगणकीताश्च के वयं सख्यस्य । सज्जनमाधुर्याणाम्

 
 
 
 
 
सख्युः भावः कर्म वा सख्यम् ॥