This page has been fully proofread once and needs a second look.

सप्तमोच्छवासः ।
 
५९.
 
इव व्यलीयन्त लोचनयुगले । कुमुदमयमिव हृदयमभवत् ।
जात विस्मय- श्चाकरोन्मनसि -- "एकमजर्यं संगतमपहाय कास्त्यन्या
प्रतिकौशलका " इति । आहारकाले च हंसवेगाय विलिप्तशेष
चन्दनम्, अङ्गस्पृष्टे च वाससी, परिवेशं नाम कटिसूत्रम्, तरङ्गकं
नाम कर्णाभरणम्, प्रभूतं च भोज्यजातं माप्राहिणोत् । एवंप्रायेण
च क्रमेण जगाम दिवसः ॥
 

 

 
ततः कटकस्थबलबहुलधूलिधूसरितवपुः अंशुमाली, मली--
मसमङ्गमिव क्षालयितुमपरजलनिधिमवातरत् । आभोगातपत्र-
प्रदानवार्तामिव निवेदयितुं वरुणाय वारुणीं दिशमयासीत् ।
अस्यां च वेलायां विततवितानतलवर्ती नरेन्द्रः, 'यात तावत्' इति
विसर्ज्यानुजीविनः, हंसवेगमादिष्टवान्– 'कथय संदेशम्' इति ॥
 

 
प्रणम्य स कथयितुं प्रास्तावीत् – "देव, पुरा वराहसंपर्क-
संभूतगर्भया भगवत्या भुवा नरको नाम सूनुरसावि रसातले .
यश्च वरुणस्य बहिर्वृत्ति हृदयम् इदमातपत्रमहार्षीत् । महात्म
नस्तस्यान्वये भगदत्तपुष्पदत्तवज्रदत्त प्रभृतिषु व्यतीतेषु बहुषु
महीपालेषु प्रपौत्रो महाराजभूतिवर्मणः पौत्रश्चन्द्र- मुखवर्मणः पुत्रो
देवस्य कैलासस्थिर स्थितेः स्थितिवर्मणः सुस्थिरवर्मा नाम महा-
राजाधिराजो जज्ञे तेजसां राशि: ; मृगाङ्क इति यं जना जगुः ।
तस्य च सुगृहीतनान्म्नो देवस्य देव्यां श्यामादेव्यां भास्कर द्युति-
र्भास्करवर्मापरनामा कुमारः समभवत् ॥
 
P
 

 
 
 
 
 
न जीर्यतीति अजर्यम् । "अजर्यं संगतम्"। प्रतिकोकौशलिका:
 
प्रत्युपहारः ॥