This page has been fully proofread once and needs a second look.

५८
 
हर्षचरितसंग्रहे
 
-
 
कार्मा: ; तद्यथा — आहतलक्षणानलंकारान्, अनेकरागरुचिरवेत्र

करण्ड कुण्डलीकृतानि शरचन्द्रमरीचिरुञ्चि शौचक्षमाणि क्षौमाणि,

अगरुवल्कलकल्पितसंचयानि च सुभाषितभाञ्जि पुस्तकानि,
कुतूहलकृन्ति कनक शृङ्खलानियमितग्री वाणां किंनराणां
वनमानुषाणां च जीवञ्जीवकानां च जलमानुषाणां च मिथुनानि,
जलहस्तिनाम् उदग्रकुम्भ मुक्ताफलदा मदन्तुराणि च दन्तकाण्ड-
कुण्डलानि ॥
 

 

 
राजा तु छत्रदर्शनात्प्रहृष्टहृदयः प्रथमप्रयाणे शोभनं निमित्त-
मिति मनसा जग्राह । हंसवेगं च प्रीयमाणो बभाषे – "भद्र,
सकलरत्नधाम्नः परमेश्वर- शिरोधारणार्हस्यास्य महातपत्रस्य महार्ण-
वादिव कुमुदबान्धवस्य कुमाराल्लाभो न विस्मयाय । बाल-
विद्याः खलु महतामुपकृतयः" इति । अपनीते च तस्मात्प्रदेशा-
त्प्राभृतसंभारे, क्षणमिव स्थित्वा " हंसवेग, विश्रभ्म्यताम्" इति
प्रतीहारभवनं विसर्जयांबभूव । स्वयमप्युत्थाय स्नात्वा मङ्गला-
काङ्क्षी प्राङ्मुखः प्राविशदाभोगस्य छायाम् । अथ विशत एवास्यः

छायाजन्मना जडिम्ना चूडामणितामनीयतेव शशिबिम्बम् । अम्बु
बिन्दु- मुचञ्श्चुचुम्बुरिव चन्द्रकान्तमणयो ललाटतटम् । कर्पूररेणव

 
 
 
 
 
कार्माः कर्मशीलाः "कार्मस्ताच्छील्ये" । आहतलक्षणान् गुणै:
प्रथितान् । "गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ " इत्यमरः । शौचं
निर्णेजनम् । दाम श्रेणि: । सकलानां रत्नानां मणीनां श्रेष्ठवस्तूनां च धाम
वासस्थानं तस्मात् । इदं महार्णवकुमारयो र्विशेषणम् । परमेश्वरः शिवः, प्रकृष्टः
प्रभुश्च । इदं च महातपत्रकुमुदबान्धवयोर्विशेषणम् । संभारः समूहः ॥
 
>
 
1
 
17.