This page has not been fully proofread.

५८
 
हर्षचरितसंग्रहे
 
-
 
कार्मा: ; तद्यथा — आहतलक्षणानलंकारान्, अनेकरागरुचिरवेत्र
करण्ड कुण्डलीकृतानि शरचन्द्रमरीचिरुचि शौचक्षमाणि क्षौमाणि,
अगरुवल्कलकल्पितसंचयानि च सुभाषितभाञ्जि पुस्तकानि,
कुतूहलकृन्ति कनक शृङ्खलानियमितग्री वाणां किंनराणां 회
वनमानुषाणां च जीवञ्जीवकानां च जलमानुषाणां च मिथुनानि,
जलहस्तिनाम् उदयकुम्भमुक्ताफलदा मदन्तुराणि च दन्तकाण्ड-
कुण्डलानि ॥
 

 
राजा तु छत्रदर्शनात्प्रहृष्टहृदयः प्रथमप्रयाणे शोभनं निमित्त-
मिति मनसा जग्राह । हंसवेगं च प्रीयमाणो बभाषे – "भद्र,
सकलरत्नधाम्नः परमेश्वरशिरोधारणार्हस्यास्य महातपत्रस्य महार्ण-
वादिव कुमुदबान्धवस्य कुमाराल्लाभो न विस्मयाय । बाल-
विद्याः खलु महतामुपकृतयः" इति । अपनीते च तस्मात्प्रदेशा-
त्प्राभृतसंभारे, क्षणमिव स्थित्वा " हंसवेग, विश्रभ्यताम्" इति
प्रतीहारभवनं विसर्जयांबभूव । स्वयमप्युत्थाय स्नात्वा मङ्गला-
काङ्क्षी प्राङ्मुखः प्राविशदाभोगस्य छायाम् । अथ विशत एवास्यः
छायाजन्मना जडिम्ना चूडामणितामनीयतेव शशिबिम्बम् । अम्बु
बिन्दुमुचञ्चुचुम्बुरिव चन्द्रकान्तमणयो ललाटतटम् । कर्पूररेणव
कार्माः कर्मशीलाः "कार्मस्ताच्छील्ये" । आहतलक्षणान् गुणै:
प्रथितान् । "गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ " इत्यमरः । शौचं
निर्णेजनम् । दाम श्रेणि: । सकलानां रत्नानां मणीनां श्रेष्ठवस्तूनां च धाम
वासस्थानं तस्मात् । इदं महार्णवकुमारयो विशेषणम् । परमेश्वरः शिवः, प्रकृष्टः
प्रभुश्च । इदं च महातपत्रकुमुदबान्धवयोर्विशेषणम् । संभारः समूहः ॥
 
>
 
1
 
17.