This page has not been fully proofread.

सप्तमोच्छ्वासः ।
 
चहून्याश्चर्याणि दृश्यन्ते – प्रतिदिवसं प्रविशति शैत्यहेतो छायायाः
किरणसहस्रादेकैकः सोमस्य रश्मिरस्मिन् । अस्मिन्प्रविष्टे प्रध्याना-
नन्तरं स्वादवो दन्तवीणोपदेशाचार्याश्च्योतन्ति चन्द्रभासाम-
म्भसां मणिशलाकाभ्यो यावदिच्छमच्छा धाराः । प्रचेता इव
यश्चतुर्णामर्णवानामधिपतिर्भूतो भावी वा, तमनुगृह्णाति छायया
नेतरम् । इदं च न सप्तार्चिहति, न पृषदश्वो हरतेि, नोदकमाई-
यति, न रजांसि मलिनयन्ति, न जरा जर्जरयति । एतत्तावदनु-
गृह्णातु दृशा देवः । संदेशमपि विस्रब्धं श्रोष्यति" इत्येवमभिधाय
विवृत्य, आत्मीयं पुरुषमभ्यधात् – "उत्तिष्ठ, दर्शय देवस्य" इति ॥
 
स वचनानन्तरमुत्थाय पुमान् ऊर्ध्वाचकार तत्, धौतदु-
कूलकल्पिताञ्च निचोलकादकोषीत् । आकृष्यमाण एव च यस्मिन्
अतिसितमहसि, सरभसमहासीव हरेण, रसातलादुदलासीव शेष-
फणिफणाफलकमण्डलेन, अस्थायीव चक्रीभूयान्तरिक्षे क्षीरोदेन ॥
 
www
 
चित्रीयमाणचेताच सराजको राजा दण्डानुमाराधिरो-
हिण्या दृष्ट्या सादरम् ऐक्षिष्ट तत् तिलकमिव त्रिभुवनस्य,
शैशवमिव श्वेतद्वीपस्य, अंशावतारमिव शरदिन्दो:, हृदयमिव
धर्मस्य उपरिस्थितमिव सर्वमङ्गलानाम्, श्वेतमण्डपमिव श्रियः,
हासमिव कीर्ते:, त्रैलोक्याद्भुतं महच्छत्रम् ।
 
,
 
दृष्टे च तस्मिन्प्रथमे, शेषमपि प्राभृतं प्रकाशयांचक्रुः क्रमेण
 
निचोलकः प्रच्छदपटा । क्षीरम् उदकं यस्य सः क्षीरोदः ।
चित्रीयमाणं विस्मयमानम् । राज्ञां समूह राजकम् । प्राभृतम् उपहारः ॥