This page has been fully proofread once and needs a second look.

हर्षचरित संग्रहे
 
अभृतयोऽभवन्भूपतयः ।" इत्येवंप्रायान् उद्योगद्योतकानालापान्
पार्थिव कुमाराणां बाहुशालिनां शृण्वन्नेव आससादावासम् ।
मन्दिरद्वारि चोभयतः सबहुमानं भ्रूलताभ्यां विसर्जितराजलोकः,
बाह्यास्थानमण्डपस्थापितमास-नमाचक्राम 1 अपास्तसमायोगश्च
क्षणमासिष्ट ॥
 

 
अथ तत्र प्रतीहारः पृथ्वीपृष्ठप्रतिष्ठापितपाणिपल्लवो विज्ञा-
पितवान् – "देव, प्राग्ज्योतिषेश्वरेण कुमारेण प्रहितो हंसवेगो
नाम दूतस्तोरणमध्यास्ते" इति । राजा तु "तमाशु प्रवेशय"
इति सादरमादिदेश ।
 
५६
 

 
अथ दक्षतया क्षितिपालादराच्च प्रतीहारः स्वयमेव
निरगात् । अनन्तरं च हंसवेगः सविनयं प्रभूतप्राभृतभृतां
पुरुषाणां समूहेन महतानुगम्यमानः प्रविवेश राजमन्दिरम् ।
आरादेव च पञ्चाङ्गालिङ्गिताङ्गनः प्रणाममकरोत् । स्निग्धनरेन्द्र-
दृष्ट्या निर्दिष्टमविप्रकृष्टं च प्रदेशमध्यास्त । ततो राजा संमुखीन-
स्तं सप्रश्रयं पप्रच्छ – "हंसवेग, श्रीमान् कञ्चित्कुशली कुमार: ?

इति । स तमन्ववादीत् – "अद्य कुशली, येनैवं स्नेहस्त्रपितया
सगौरवं गिरा पृच्छति देवः" इति ॥
 
66
 

 
स्थित्वा च मुहूर्तमिव पुनः स चतुरमुवाच – "चतुरम्भो
वि
धिभोगभूतिभाजन- भूतस्य देवस्य सद्भावगर्भमपहाय हृदयमेकम्,
अन्यदनुरूपं प्राभृतमेव दुर्लभं लोके । तथाप्यस्मत्स्वामिना
संदेशमशून्यतां नयता पूर्वजोपार्जितं वारुणातपत्रम् आभोगाख्यम्
अनुरूपस्थानन्यासेन कृतार्थीकृतमेतत् । अस्य च कुतूहलकृन्ति