This page has not been fully proofread.

सप्तमोच्छ्वासः ।
 
अथ गलति तृतीये यामे अताड्यत प्रयाणपटहः । अग्रतः
स्थित्वा च मुहूर्तमिव पुनः प्रयाणक्रोशसंख्यापका: स्पष्टम् अष्टौ
अदीयन्त प्रहाराः पटहे पटीयांसः । ततो रटत्पटहे कूजत्काहले
शब्दायमानशद्धे प्रयाणसमये, प्रतिदिशमागच्छद्भिः उद्घोषयमाण-
नामभिः उन्मुखपादातप्रतिपाल्यमानाज्ञापातैः राजभिरापुपूरे
 
,
 
५५
 
राजद्वारम् ॥
 
उदिते च भगवति दिनकृति, राज्ञः समायोगग्रहणसमय-
शंसी सस्वान संज्ञाशो मुहुर्मुहुः । अथ नचिरादिव करेणुकयो-
ह्यमानः दण्डिभिरितस्ततः समुत्सार्यमाणजनसमूहों निर्जगाम
नरपतिः । अथ प्रस्थिते राजनि, इतस्ततो वितस्तार तारतरस्तू-
र्याणां प्रतिध्वनिराशातटेषु । दिग्गजेभ्यः प्रकुपितानां त्रिप्रस्रुतानां
करिणां मदप्रस्रवणवीथीभिरलिकुलकालीभिः कालिन्दीवेणिकास-
हस्राणीव सस्यन्दिरे । दोधूयमानश्च सचराचरमाचचाम चामर-
संघातो विश्वम् । सर्वतो विक्षिप्तचक्षुश्च भूपालोऽद्राक्षीत् आवा-
सस्थानसकाशात्प्रतिष्ठमानं स्कन्धावारम् अधोक्षजकुक्षेरिव युगादौ
निष्पतन्तं जीवलोकम् । वीक्षमाणश्च कटकं जगाम ।
 
-
 
आसन्नवर्तिनां च तत्रभवताम् "मान्धात्रा प्रवर्तिताः
पन्थानो दिग्विजयाय । अप्रतिह्तरथरंहसा रघुणा लघुनैव
कालेन अकारि ककुभां प्रसादनम् । नातिजिगीषवः खलु पूर्वे,
येनाल्प एव भूभागे भूयांसो भगदत्तदन्तवक्त्रशिशुपालजरासंध-
समायोगः सज्जता, "समायोगस्तु संयोग समवाये प्रयोजने" इति
मेदिनी समायोगः भूषणादिपरिकर इत्यन्ये ॥