This page has been fully proofread once and needs a second look.

हर्षचरित संग्रहे
 
प्रतिसरं प्रकोष्ठे, शान्ति सलिलशीकराभ्युक्षितशिराः, विमुच्य बन्ध
नानि, प्रमुदितप्रजाजन्यमानजयशब्दकोलाहलो भवनान्निर्जगाम ॥
 
५४
 

नातिदूरे च नगरादुपसरस्वति निर्मिते महति तृणमये
मन्दिरे प्रस्थानम- करोत् । तत्रस्थस्य चास्य ग्रामाक्षपटलिकः सकल-
करणिपरिकरः, 66
"करोतु देवो दिवसग्रहण मद्यैवावन्ध्यशासनः
शासनानाम्" इत्यभिधाय, वृषाङ्काम- भिनवघटितां हाटकमयीं
मुद्रामुपनिन्ये । जग्राह च तां राजा । समुपस्थापिते च प्रथमत
एव मृत्पिण्डे परिभ्रश्य करकमलादधोमुखी महीतले पपात
मुद्रा ।
मन्दाश्यानपङ्कपटले मृदुमृदि सरस्वतीतीरे व्यराजन्त राजयो

वर्णानाम् । अमङ्गलाशङ्किनि च विषीदति परिजने नरपतिरकरो -
न्मनस्येवम् – " तत्त्वदर्शिन्यो नहि भवन्त्यविदग्धानां धियः ।
तथाहि — एकशासन मुद्राङ्का भूर्भवतो भविष्यतीति निवेदितमपि
निमित्तेन अन्यथा गृह्णन्ति ग्राम्याः" इत्यभिनन्द्य महानिमित्तं
तत्, सीरसहस्रसंमितसीम्नां ग्रामाणां शतमदाहिद्दिजेभ्यः । निनाय
च तत्र तं दिवसम् । प्रतिपन्नायां शर्वर्यायां संमानितसर्वराजलोकः
सुष्वाप ॥
 
-
 

 
 
 
अक्षाणां भूतानां व्यवहाराणां वा पटलं समूहः, तत्र नियुक्तः अक्षपटलिकः,
प्

ग्
रामस्य अक्षपटलिकः प्ग्रामाधिकारी । करणं लेख्यं तद्वन्तः करणिन:नः कायस्थाः ।
करणयः कायस्था इत्येके । करणिः लेख्यमित्यन्ये । परिकर:रः परिवा
रः सहायः सामग्री वा शासनानि आज्ञाः, आज्ञालेख्यानि वा वृषः वृषभः
अङ्कः यस्याः सा तां वृषाङ्काम् । आश्यानं शुष्कम् । विदग्धाः रसिका,
विवेकिनः । एकम् अद्वितीयं मुख्यं वा शासनं पालनम् एकस्य शासनं वा
तस्य मुद्रा अङ्कः चिह्नं यस्याः सा प्। ग्रामे भवाः ग्राम्याः विवेकरहिताः ॥