This page has not been fully proofread.

हर्षचरित संग्रहे
 
प्रतिसरं प्रकोष्ठे, शान्ति सलिलशीकराभ्युक्षितशिराः, विमुच्य बन्ध
नानि, प्रमुदितप्रजाजन्यमानजयशब्दकोलाहलो भवनान्निर्जगाम ॥
 
५४
 
नातिदूरे च नगरादुपसरस्वति निर्मिते महति तृणमये
मन्दिरे प्रस्थानमकरोत् । तत्रस्थस्य चास्य ग्रामाक्षपटलिकः सकल-
करणिपरिकरः, 66
करोतु देवो दिवसग्रहण मद्यैवावन्ध्यशासनः
शासनानाम्" इत्यभिधाय, वृषाङ्कामभिनवघटितां हाटकमयीं
मुद्रामुपनिन्ये । जग्राह च तां राजा । समुपस्थापिते च प्रथमत
एव मृत्पिण्डे परिभ्रश्य करकमलादधोमुखी महीतले पपात मुद्रा ।
मन्दाश्यानपङ्कपटले मृदुमृदि सरस्वतीतीरे व्यराजन्त राजयो
वर्णानाम् । अमङ्गलाशनि च विषीदति परिजने नरपतिरकरो -
न्मनस्येवम् – " तत्त्वदर्शिन्यो नहि भवन्त्यविदग्धानां धियः ।
तथाहि — एकशासनमुद्राङ्का भूर्भवतो भविष्यतीति निवेदितमपि
निमित्तेन अन्यथा गृह्णन्ति ग्राम्याः इत्यभिनन्द्य महानिमित्तं
तत्, सीरसहस्रसंमितसीम्नां ग्रामाणां शतमदाहिजेभ्यः । निनाय
च तत्र तं दिवसम् । प्रतिपन्नायां शर्वर्या संमानितसर्वराजलोकः
सुष्वाप ॥
 
-
 
अक्षाणां भूतानां व्यवहाराणां वा पटलं समूहः, तत्र नियुक्तः अक्षपटलिकः,
प्रामस्य अक्षपटलिकः प्रामाधिकारी । करणं लेख्यं तद्वन्तः करणिन: कायस्थाः ।
करणयः कायस्था इत्येके । करणिः लेख्यमित्यन्ये । परिकर: परिवार
सहायः सामग्री वा शासनानि आज्ञाः, आज्ञालेख्यानि वा वृषः वृषभः
अङ्कः यस्याः सा तां वृषाङ्काम् । आश्यानं शुष्कम् । विदग्धाः रसिका,
विवेकिनः । एकम् अद्वितीयं मुख्यं वा शासनं पालनम् एकस्य शासन वा
तस्य मुद्रा अङ्कः चिह्नं यस्याः सा प्रामे भवाः ग्राम्याः विवेकरहिताः ॥