This page has not been fully proofread.

सप्तमोच्छ्वासः ।
 
देवोऽपि हर्षः सकलराज्यस्थितीश्चकार । ततश्च तथा
कृतप्रतिज्ञे प्रयाणं विजयाय दिशां समादिशति देवे हर्षे, गतायुषां
अतिसामन्तानामुदवसितेषु बहुरूपाण्युपलिङ्गानि वितेनिरे ॥
 
इति भट्टयाणविरचिते हर्षचरिते राजप्रतिज्ञावर्णनं
 
नाम षष्ठ उच्छ्वासः ।
 
५३
 
॥ सप्तम उच्छ्रासः ॥
 
अथ व्यतीतेषु केषुचिद्दिवसेषु, मौहूर्तिकमण्डलेन शतशः
सुगणिते प्रशस्ते अहनि दत्ते चतसृणामपि दिशां विजययोग्ये
दण्डयात्रालमे, स्नात्वा विरचय्य परमया भक्त्या भगवतो नील-
लोहितस्यार्चाम्, उदर्चिषं हुत्वाशुशुक्षणिम्, दत्त्वा द्विजेभ्यो रत्न-
• वन्ति राजतानि जातरूपमयानि च सहस्रशस्तिलपात्राणि कनक-
'पत्रलतालंकृतशफ शृङ्गशिखरा गाचार्बुदशः समुपविश्य वितत-
व्याघ्रचर्मणि भद्रासने, विलिप्य प्रथम विलिप्तायुधश्चन्दनेन शरी-
रम्, परिधाय राजहंस मिथुनलक्ष्मणी दुकूले, कल्पयित्वा सित-
'कुसुममुण्डमालिकां शिरसि, नीत्वा कर्णगोचरतां गोरोचनाच्छुरित-
- मभिनवं दूर्वापल्लवम्, विन्यस्य सह शासनवळयेन गमनमङ्गल-