This page has been fully proofread once and needs a second look.

अथ युगपत्प्रधावितबहुपुरुपपरंपराहूयमानः स्वमन्दिरात् अप्रतिपालित करेणुश्चरणाभ्यामेव, संभ्रान्तः, एकभर्तृभक्तिनिश्चलां कुलाङ्गनामिवानन्य- गम्यां प्रभुप्रसादभूमिमारूढः, निष्कारणबान्धवो विदग्धानाम्, अक्रीतदासो विदुषां स्कन्दगुप्तो विवेश राजकुलम् । दूरादेव चोभयकरकमलावलम्बितं स्पृशन्मौलिना महीतलम् नमस्कारमकरोत् ॥

उपविष्टं नातिनिकटे तं तदा जगाद देवो हर्ष:- "श्रुतो विस्तर एवास्यार्य- व्यतिकरस्य अस्मच्चिकीर्षितस्य च ? अतः शीघ्रं प्रवेश्यन्तां प्रचारनिर्गतानि गजसाधनानि । न क्षाम्यत्यतिस्वल्पमप्यार्यपरिभवपीडापावकः प्रयाण- विलम्बम्" इति ॥

एवमभिहितश्च प्रणम्य व्यज्ञापयत्- "कृतमवधारयतु स्वामी समादिष्टम् । किं तु स्वल्पं विज्ञाप्यमस्ति भर्तृभक्तेः । तदाकर्णयतु देवः । देवेन हि पुष्प- भूतिवंशसंभूतस्य सहजस्य तेजसः, दिक्करिकरप्रलम्बस्य बाहुयुगलस्य, असाधारणस्य च सोदरस्नेहस्य सर्वं सदृशमुपक्रान्तम् । काकोदराभिधाना: कृपणा: कृमयोऽपि न मृष्यन्ति निकारम्, किमुत भवादृशास्तेजसां राशय:। केवलं देवराज्यवर्धनोदन्तेन कियदपि दृष्टमेव देवेन दुर्जनदौरात्म्यम् ।
ईदृशाः खलु लोकस्वभावा: । प्रतिग्रामं प्रतिनगरं प्रतिदेशं प्रतिद्वीपं प्रति- दिशं च भिन्ना वेषाश्चाकाराचाहाराश्च व्यवहाराश्च । तदियमात्मदेशाचारो- चिता स्वभावसरलहृदयजा त्यज्यतां सर्वविश्वासिता । प्रमाददोषाभिषङ्गेषु श्रुतबहुवार्त एव प्रतिदिनं देव: " इत्युक्त्वा विरराम, स्वाम्यादेशसंपादनाय च निर्जगाम ॥