This page has been fully proofread once and needs a second look.

हर्षचरितसंग्रहे
 
अथ युगपत्प्रधावितबहुपुरुपपरंपराहूयमानः स्वमन्दिरात्
अप्रतिपालित करेणुश्चरणाभ्यामेव, संभ्रान्तः, एकभर्तृभक्तिनिश्चलां
कुलाङ्गनामिवानन्य- गम्यां प्रभुप्रसाद भूमिमारूढः, निष्कारण-
बान्धवो विदग्धानाम्, अक्रीतदासो विदुषां स्कन्दगुप्तो विवेश
राजकुलम् । दूरादेव चोभयकरकमलावलम्बितं स्पृशन्मौलिना
महीतलम् नमस्कारमकरोत् ॥
 

उपविष्टं नातिनिकटे तं तदा जगाद देवो हर्ष:- "श्रुतो
विस्तर एवास्यार्य- व्यतिकरस्य अस्मच्चिकीर्षितस्य च ? अतः शीघ्रं
प्रवेश्यन्तां प्रचारनिर्गतानि गजसाधनानि । न क्षाम्यत्यतिस्वल्प-
मध्
मप्यार्यपरिभवपीडापावकः प्रयाण- विलम्बम्" इति ॥
 
५२
 
M
 

 

एवमभिहितश्च प्रणम्य व्यज्ञापयत्- "कृतमवधारयतु
स्वामी समादिष्टम् । किं तु स्वल्पं विज्ञाप्यमस्ति भर्तृभक्तेः । तदा-
कर्णयतु देवः । देवेन हि पुष्प- भूतिवंशसंभूतस्य सहजस्य तेजसः,
दिक्करिकरप्रलम्बस्य बाहुयुगलस्य, असाधारणस्य च सोदरस्नेहस्य
सर्वं सदृशमुपक्रान्तम् । काकोदराभिधाना: कृपणा: कृमयोऽपि न
मृष्यन्ति निकारम्, किमुत भवादृशास्तेजसां राशय: । केवलं देव-
राज्यवर्धनोदन्तेन कियदपि दृष्टमेव देवेन दुर्जनदौरात्म्यम् ।

ईदृशाः खलु लोकस्वभावा: । प्रतिभाग्रामं प्रतिनगरं प्रतिदेशं प्रति-
द्वीपं प्रति- दिशं च भिन्ना वेषाञ्श्चाकाराचाहाराञ्श्च व्यवहाराश्च ।
तदियमात्मदेशाचारो- चिता स्वभावसरलहृदयजा त्यज्यतां सर्ववि-
श्वासिता । प्रमाद्दोषाभिषङ्गेषु श्रुतबहुवार्त एव प्रतिदिनं देव: "
इत्युक्त्वा विरराम, स्वाम्यादेशसंपादनाय च निर्जगाम ॥
 
XAX