This page has been fully proofread once and needs a second look.

पोटेव प्रतीकारशून्यं शुचा सूत्कर्तुम् । श्रूयतां मे प्रतिज्ञा–शपाम्यार्यस्यैव पादपांसुस्पर्शेन; यदि परिगणितैरेव वासरैर्निर्गौडां न करोमि मेदिनीम्, ततस्तनूनपाति पातकी पातयाम्यात्मानम् ॥"

इत्युक्त्वा च महासंधिविग्रहाधिकृतभवन्तिमन्तिकस्थमादिदेश – "लिख्यतां सर्वेषां राज्ञाम् -सज्जीक्रियन्तां कराः करदानाय, शस्त्रग्रहणाय वा । गृह्यन्तां दिशः, चामराणि वां । नमन्तु शिरांसि, धनूंषि वा । कर्णपूरीक्रियन्तामाज्ञाः, मौर्व्यो वा । मुच्यन्तां भूमयः, इषवो वा । परागतोऽहम्" इति । कृतनिश्चयश्च
मुक्तास्थानो विसर्जितराजलोकः स्नानारम्भाकाङ्क्षी सभामत्याक्षीत् ।
उत्थाय च स्वस्थवन्निःशेषमाह्निकमकार्षीत् । अगलच्च दर्पप्रसर इव
श्रुतप्रतिज्ञस्य शाम्यदूष्मा दिवसस्त्रिभुवनस्य ॥

ततश्च निजाधिकारापहारमीत इव भगवत्यपि क्वापि गते गततेजस्य हिमभासि, प्रदोषास्थाने नातिचिरं तस्यो प्रतिषिद्धपरिजनप्रवेशश्च शयनगृहं प्राविशत् । उत्तानश्च मुमोचाङ्गानि शयनतले । दीपद्वितीयं च तम् अभिसर इव लब्धावसरस्तरसा भ्रातृशोको जग्राह । जीवन्तमिव हृदये निमीलित लोचनो ददर्शाग्रजम् । मुखमाच्छाद्य निःशब्दमतिचिरं रुरोद । प्रभातायां च
शर्वर्याम्, प्रातरेव प्रतीहारमादिदेश - "अशेषगजसाधनाधिकृतं
स्कन्दगुप्तं द्रष्टुमिच्छामि " इति ।
 
 
 
 
 
पोटा स्त्रीपुंसलक्षणा । करः राजप्राह्यो भागः । आह्निकम् आह्नि भवं
नित्यकर्म ॥