This page has been fully proofread once and needs a second look.

षष्ठोच्छवासः ।
 
पोटेव प्रतीकारशून्यं शुचा सूत्कर्तुम् । श्रूयतां मे प्रतिज्ञा–शपा-
म्यार्यस्यैव पादपांसुस्पर्शेन; यदि परिगणितैरेव वासरैर्निर्गौडां न
करोमि मेदिनीम्, ततस्तनूनपाति पातकी पातयाम्यात्मानम् ॥
 
"
इत्युक्त्वा च महासंधिविग्रहाधिकृतभवन्तिमन्तिकस्थमा-
वि
दिदेश – "लिख्यतां सर्वेषां राज्ञाम् -सज्जीक्रियन्तां कराः
करदानाय, शस्त्रग्रहणाय वा । गृह्यन्तां दिशः, चामराणि वां ।
नमन्तु शिरांसि, धनूंषि वा । कर्णपूरीकिक्रियन्तामाज्ञाः, मौर्व्यो वा ।
-
मुच्यन्तां भूमयः, इषवो वा । परागतोऽहम्" इति । कृतनिश्चयश्च
-

मुक्तास्थानो विसर्जितराजलोकः स्नानारम्भाकाङ्क्षी सभामत्याक्षीत् ।

उत्थाय च स्वस्थवन्निःशेष माह्निकमकार्षीत् । अगलच्च दर्पग्प्रसर इव

श्रुतप्रतिज्ञस्य शाम्यदूष्मा दिवसखिस्त्रिभुवनस्य 0OK
 
r
 
R9
 

ततश्च निजाधिकारापरिहारमीत इव भगवत्यपि काक्वापि गते
गततेजस्य हिमभासि, प्रदोषास्थाने नातिचर तथाचिरं तस्यो प्रतिषिद्ध-
परिजनप्रवेशश्च शयनगृहं प्राविशत् । उत्तानश्च मुमोचाङ्गानि शयन-
तले । दीपद्वितीयं च तम् अभिसर इव लब्धावसरस्तरसा
भ्रातृशोको जग्राह । जीवन्तमिव हृदये निमीलित लोचनो ददर्शा-
ग्रजम् । मुखमाच्छाद्य निःशब्दमतिचिरं रुरोद । प्रभातायां च

शर्वर्याम्, प्रातरेव प्रतीहारमादिदेश - "अशेषगजसाधनाधिकृतं

स्कन्दगुप्तं द्रष्टुमिच्छामि " इति ।
 
६.
 
217***
 
36
 

 
 
 
 
 
पोटा स्त्रीपुंसलक्षणा । करः राजप्राह्यो भागः । आह्निकम् आहिह्नि भवं

नित्यकर्म ॥
 
8948
 
1
 
Fa