2023-02-19 13:18:36 by ambuda-bot
This page has not been fully proofread.
षष्ठोच्छवासः ।
पोटेव प्रतीकारशून्यं शुचा सूत्कर्तुम् । श्रूयतां मे प्रतिज्ञा–शपा-
म्यार्यस्यैव पादपांसुस्पर्शेन; यदि परिगणितैरेव वासरैर्निगडां न
करोमि मेदिनीम्, ततस्तनूनपाति पातकी पातयाम्यात्मानम् ॥
इत्युक्त्वा च महासंधिविग्रहाधिकृतभवन्तिमन्तिकस्थमा-
विदेश – "लिख्यतां सर्वेषां राज्ञाम् -सज्जीक्रियन्तां कराः
करदानाय, शस्त्रग्रहणाय वा । गृह्यन्तां दिशः, चामराणि वां ।
नमन्तु शिरांसि, धनूंषि वा । कर्णपूरीकियन्तामाज्ञाः, मौर्यो वा ।
-मुच्यन्तां भूमयः, इषवो वा । परागतोऽहम्" इति । कृतनिश्चयश्च
-मुक्तास्थानो विसर्जितराजलोकः स्नानारम्भाकाङ्क्षी सभामत्याक्षीत् ।
उत्थाय च स्वस्थवन्निःशेष माह्निकमकार्षीत् । अगलच दर्पग्रसर इव
श्रुतप्रतिज्ञस्य शाम्यदूष्मा दिवसखिभुवनस्य 0OK
r
R9
ततश्च निजाधिकारापरिमीत इव भगवत्यपि कापि गते
गततेजस्य हिमभासि, प्रदोषास्थाने नातिचर तथा प्रतिषिद्ध-
परिजनप्रवेशश्च शयनगृहं प्राविशत् । उत्तानश्च मुमोचाङ्गानि शयन-
तले । दीपद्वितीयं च तम् अभिसर इव धावसरस्तरसा
भ्रातृशोको जग्राह । जीवन्तमिव हृदये निमीलितलोचनो ददर्शा-
ग्रजम् । मुखमाच्छाद्य निःशब्दमतिचिर रुरोद । प्रभातायां च
शर्वर्याम्, प्रातरेव प्रतीहारमादिदेश - "अशेषगजसाधनाधिकृतं
स्कन्दगुप्तं द्रष्टुमिच्छामि " इति ।
६.
217***
36
पोटा स्त्रीपुंसलक्षणा । करः राजप्राह्यो भागः । आह्निकम् आहि भवं
अनित्यकर्म ॥
8948
1
Fa