This page has been fully proofread once and needs a second look.

न स्पृशत्येव तेजस्विनं शोकः । स त्वं सत्त्ववतामग्रणीः प्राग्रहरः प्राज्ञानाम्, प्रथम: समर्थानाम्, प्रष्ठोऽभिजातानाम् अग्रेसरस्तेजस्विनाम्, आदिर- सहिष्णूनाम् । एताश्च धीरताया निवासशिशिरभूमयः स्वायत्ता: सुभटाना- मुरःकवाटभित्तयः । ततः किं गौडाधिपेनैकेन । तथा कुरु, यथा नान्योऽपि कश्चिदेवमाचरति भूयः । येनैव ते गतः पिता पितामहः प्रपितामहो वा, तमेव मा हासीस्रिभुवनस्पृहणीयं पन्थानम् । अपहाय कुपुरुषोचितां शुचम्,
प्रतिपद्यस्व कुलक्रमागतां राजलक्ष्मीम् । देव, देवभूयं गते नरेन्द्रे, दुष्टगौड- भुजंगजग्धजीबिते च राज्यवर्धने, वृत्तेऽस्मिन्महाप्रलये धरणीधारणाय अधुना त्वं शेषः । समाश्वासय अशरणा: प्रजाः । क्ष्मापतीनां शिरःसु शरत्सवितेव ललाटंतपान्प्रयच्छ पादन्यासान् " इत्युक्त्वा व्यरंसीत् ॥

देवस्तु हर्षस्तं प्रत्यवादीत् – "करणीयमेवेदमभिहितं मान्येन । इतरथा हि मे गृहीतभुवि भोगिनाथेऽपि दायाददृष्टिरीर्ष्यालोर्भुजस्य । तेजोदुर्विदग्धान् अर्ककरानपि चामराणि ग्राहयितुमीहते हृदयम् । अपि च, हृदयविषम- शल्ये मुसल्ये जीवति जाल्मे जगद्विगर्हिते गौडाधिपाधमचण्डाले जिह्नेमि शुष्काधरपुटः
 
 
 
 
प्राग्रहरः मुख्यः । "प्रष्ठोऽग्रगामिनि" । देवस्य भावः देवभूयम् ।
जग्धं भक्षितम् । प्रलयः कल्पान्तः, नाशश्च । शेषः अवशिष्टः अनन्तश्च ।
ललाटं तपन्तीति ललाटंतपाः । "असूर्यललाटयोर्दृशितपोः" इति खश् ।
पादः चरणः, किरणश्च । व्यरसीत् "व्याङ्परिभ्यो रमः" इति परस्मैपदिनो
लुङ् । मुसलं तत्प्रहारं अर्हति मुसल्यः ॥